________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
इगसोलसपंचसु सीइ दोसु चउसट्ठि सरसदखाओ । कणयकच्चोलिआई, मंडावइ अट्ठवग्गेसु ॥११९४॥ मणिकणगनिम्मिआई, नरनाहो अट्ठ बीअपूराई । वग्गंतरगयपढमे, परमिट्ठिपयंमि ठावेइ ॥११९५॥ खारिक्कपुंजयाई, ठावइ अडयाललद्धिठाणेसु । गुरुपाउआसु अट्ठसु, नाणाविहदाडिमफलाणि ॥११९६॥ नारिंगाइफलाई, जयाइठाणेसु अट्ठसु ठवेइ । चत्तारि उ कोहलए, चक्काहिट्ठायगपएसु ॥११९७॥
अष्टसु वर्गेषु एकस्मिन्प्रथमे वर्गे अवर्गाख्ये षोडश सरसद्राक्षाः, ततः पञ्चसु वर्गेषु प्रत्येकं षोडश षोडश विन्यासादशीतिमा॑क्षाः, तयोर्द्वयोर्वर्गयोः-यवर्गशवर्गयोः प्रत्येकं द्वात्रिंशद्वात्रिंशद्विन्यासात् चतुष्षष्टिः सरसद्राक्षाः कनककच्चोलिकाभिर्मण्डयति ॥ ११९४ ॥ नरनाथो-राजा श्रीपालो मणिकनकाभ्यां निर्मितानि-रचितानि अष्टौ बीजपूरकफलानि वर्गाणाम् अन्तरेषु मध्येषु गते-प्राप्ते प्रथमे-आद्ये परमेछिपदे 'नमो अरिहंताण' मित्याकारके स्थापयति ॥ ११९५ ॥ अष्टचत्वारिंशत्लब्धिस्थानेषु खारिकफलपुजानि स्थापयति, तथा अष्टसु गुरुपादुकासु नानाविधानिबहुप्रकाराणि दाडिमफलानि स्थापयति ॥ ११९६ ॥ तथाऽष्टसु जयादिस्थानेषु नारङ्गादिफलानि स्थापयति, च - पुनः चक्रस्य-सिद्धचक्रस्य अधिष्ठायकपदेषु विमलस्वामिचक्रेश्वरीक्षेत्रपालादिषु चत्वारि कूष्माण्डकफलानि स्थापयति ॥ ११९७
For Private and Personal Use Only