Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
इअ नवपयसिद्ध लद्धिविज्जासमिद्धं, पयडिअसरवग्गं ह्रींतिरेहासमग्गं । दिसिवइसुरसारं खोणिपीढावयारं, तिजयविजयचक्कं सिद्धचक्कं नमामि ॥१२१०॥ वज्जंतएहिं मंगलतूरेहिं सासणं पभावंतो । साहम्मिअवच्छल्लं, करेइ वरसंघपूअं च ॥१२११॥ एवं सो नरनाहो, सहिओ ताहिं च पट्टदेवीहिं । अन्नेहिवि बहुएहिं, आराहइ सिद्धवरचक्कं ॥१२१२॥ अह तस्स मयणसुंदरि-पमुहाहिं राणियाहिं संजाया । नव निरुवमगुणजुत्ता, तिहुअणपालाइणो पुत्ता ॥१२१३॥
इति-अमुना प्रकारेण नवपदैः सिद्धं-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनःहीं इत्यक्षरस्य समन्ताद् यास्तिस्रो रेखास्ताभिः समग्रं-सम्पूर्णं, पुनः दिक्पतिभिः-दिक्पालैः सुरैश्च-शेषसुरैः सारं-प्रधानं, पुनः क्षोणिपीठे-पृथ्वीपीठे अवतारः-अवतरणं यस्य तत्तथा, पुनस्त्रिजगतःत्रिभुवनस्य विजये-विजयार्थं चक्रमिव त्रिजगद्विजयचक्रम्, ईदृशं सिद्धचक्रमहं नमामि ॥१२१०॥ इति श्रीसिद्धचक्रस्तवः । मङ्गलतूरैः-मङ्गलवाद्यैर्वाद्यमानैः शासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपालः साधर्मिकवात्सल्यं च -पुनर्वरांप्रधानां सङ्घपूजां करोति ॥१२११॥ एवम्-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितोऽन्यैरपि बहुभिर्लोकैः सहितः सिद्धवरचक्रमाराधयति ॥ १२१२ ॥ अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राज्ञीभिर्निरुपमगुणैर्युक्तास्त्रिभुवनपालादयो नव पुत्राः सञ्जाताः ॥ १२१३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312