SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir इअ नवपयसिद्ध लद्धिविज्जासमिद्धं, पयडिअसरवग्गं ह्रींतिरेहासमग्गं । दिसिवइसुरसारं खोणिपीढावयारं, तिजयविजयचक्कं सिद्धचक्कं नमामि ॥१२१०॥ वज्जंतएहिं मंगलतूरेहिं सासणं पभावंतो । साहम्मिअवच्छल्लं, करेइ वरसंघपूअं च ॥१२११॥ एवं सो नरनाहो, सहिओ ताहिं च पट्टदेवीहिं । अन्नेहिवि बहुएहिं, आराहइ सिद्धवरचक्कं ॥१२१२॥ अह तस्स मयणसुंदरि-पमुहाहिं राणियाहिं संजाया । नव निरुवमगुणजुत्ता, तिहुअणपालाइणो पुत्ता ॥१२१३॥ इति-अमुना प्रकारेण नवपदैः सिद्धं-निष्पन्नं पुनर्लब्धिभिः-लब्धिपदैः-विद्यादेवीभिश्च समृद्धं-समृद्धियुक्तं, पुनः प्रकटिताः-प्रकटीकृताः स्वरा वर्गाश्च यस्मिंस्तत्तथा, पुनःहीं इत्यक्षरस्य समन्ताद् यास्तिस्रो रेखास्ताभिः समग्रं-सम्पूर्णं, पुनः दिक्पतिभिः-दिक्पालैः सुरैश्च-शेषसुरैः सारं-प्रधानं, पुनः क्षोणिपीठे-पृथ्वीपीठे अवतारः-अवतरणं यस्य तत्तथा, पुनस्त्रिजगतःत्रिभुवनस्य विजये-विजयार्थं चक्रमिव त्रिजगद्विजयचक्रम्, ईदृशं सिद्धचक्रमहं नमामि ॥१२१०॥ इति श्रीसिद्धचक्रस्तवः । मङ्गलतूरैः-मङ्गलवाद्यैर्वाद्यमानैः शासन-जिनमतं प्रभावयन्-उद्दीपयन् राजा श्रीपालः साधर्मिकवात्सल्यं च -पुनर्वरांप्रधानां सङ्घपूजां करोति ॥१२११॥ एवम्-अमुना प्रकारेण स नरनाथो-राजा श्रीपालस्ताभिश्च पट्टदेवीभिः सहितोऽन्यैरपि बहुभिर्लोकैः सहितः सिद्धवरचक्रमाराधयति ॥ १२१२ ॥ अथ-अनन्तरं तस्य राज्ञो मदनसुन्दरीप्रमुखाभिः राज्ञीभिर्निरुपमगुणैर्युक्तास्त्रिभुवनपालादयो नव पुत्राः सञ्जाताः ॥ १२१३ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy