________________
Shri Mahavir Jain Aradhana Kendra
www.kobaurtm.org
Acharya Shri Kailassagarsun Gyanmandir
4 의자 자
सुत्तत्थवित्थारणतप्पराणं, नमो नमो वायगकुंजराणं । साहूण संसाहिअसंजमाणं, नमो नमो सुद्धदयादमाणं ॥१२०७॥ जिणुत्ततत्ते रुइलक्खणस्स, नमो नमो निम्मलदसणस्स । अन्नाणसम्मोहतमोहरस्स, नमो नमो नाणदिवायरस्स ॥१२०८॥ आराहिआऽखंडिअसक्कियस्स, नमो नमो संजमवीरियस्स । कम्मदुमुम्मूलणकुंजरस्स, नमो नमो तिब्बतवोभरस्स ॥१२०९॥
सूत्रार्थयोर्विस्तारणे तत्परेभ्यः वाचका-उपाध्यायाः कुञ्जरास्ते-हस्तिन इव गणशोभाकारित्वात् समर्थत्वाच्च वाचककुञ्जरास्तेभ्यो नमो नमोऽस्तु, तथा सं-सम्यक्प्रकारेण साधितः संयमो यैस्ते तथा तेभ्यः, पुनः दया च दमश्च दयादमौ शुद्धौ दयादमौ येषां ते तथा तेभ्यः साधुभ्यो नमो नमोऽस्तु ॥ १२०७॥ जिनोक्ततत्त्वे या रुचिः सा लक्षणं यस्य स तथा तस्मै निर्मलदर्शनाय-उज्ज्वलसम्यग्दर्शनाय नमो नमोऽस्तु, तथाऽज्ञानेन यः सम्मोहो-मतिभ्रमः स एव तमः-अन्धकारं तत् हरतीति अज्ञानसंमोहतमोहरस्तस्मै ज्ञानदिवाकराय-ज्ञानसूर्याय नमो नमोऽस्तु ॥१२०८॥ तथा संयमे-संयमविषये यद्वीर्यपराक्रमस्तस्मै नमो नमोऽस्तु, कीदृशाय संयमवीर्याय ?-आराधिताऽखण्डिता सक्रिया-साध्वाचाररूपा यस्मात्तत् तथा तस्मै, तथा कर्माण्येव द्रुमा-वृक्षास्तेषां यदुन्मूलनम्-उत्खननं तत्र कुञ्जरो-हस्ती इव कर्मद्रुमोन्मूलनकुञ्जरस्तस्मै तीव्रतपोभराय नमो नमोऽस्तु ॥ १२०९॥
수
For Private and Personal Use Only