________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
************************
उप्पन्नसन्नाणमहोमयाणं, सप्पाडिहेरासणसंठिआणं । सदसणााणंदियसज्जणाणं, नमो नमो होउ सया जिणाणं ॥ सिद्धाणमाणंदरमालयाणं, नमो नमोऽणंतचउक्क्याणं । सूरीण दूरीकयकुग्गहाणं, नमो नमो सुरसमप्पभाणं ॥१२०६॥
तथाहि-उत्पन्नं यत्सज्ज्ञानं केवलज्ञानंतदेव महः-तेजस्तत्स्वरूपमेषामिति उत्पन्नसज्ज्ञानमहोमयास्तेभ्यः, पुनःप्रातिहार्य:छत्रचामरादिभिः सह वर्तते यत्तत्सप्रातिहार्यम्, ईदृशं यत् आसनं-सिंहासनं तत्र सं-सम्यक् प्रकारेण स्थितेभ्यः, पुनः सद्देशनयासद्धर्मोपदेशेन आनन्दिताः सज्जनाः-सत्पुरुषा यैस्ते तथा तेभ्यः, ईदृशेभ्यो जिनेभ्यः-अर्हद्भ्यः सदा नमो नमो भवतु, नित्यं पुनः पुनर्नमस्कारोऽस्तु इत्यर्थः ॥ १२०५ ॥ आनन्दरमा-परमानन्दलक्ष्मीस्तस्या आलया-निवासास्तेभ्यः, पुनरनन्तं चतुष्कं ज्ञानदर्शनसम्यक्त्वाकरणवीर्यचतुष्टयं येषां ते तथा, तेभ्यः सिद्धेभ्यो नमो नमोऽस्तु, तथा दूरीकृतः कुग्रहः-कुत्सिताभिनिवेशो यैस्ते दूरीकृतकुग्रहास्तेभ्यः पुनः सूरः-सूर्यस्तेन समा-तुल्या प्रभा-ज्योतिर्येषां ते तथा तेभ्यः सूरिभ्यः-आचार्येभ्यो नमो नमोऽस्तु ॥१२०६॥
For Private and Personal Use Only