________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
2
-
2
-
4
विहिआए पूआए, अट्ठपयाराइ मंगलावसरे । संघेण तिलयमाला, मंगलकरणं कयं रन्नो ॥१२०२॥ तओ- जो धुरि सिरि अरिहंतमूलदढपीढपइट्ठिओ । सिद्धसूरिउवज्झायसाहुचसाहगरिट्ठिओ॥ दसणनाणचरित्ततवहिं पडिसाहहिं सुंदरु । तत्तक्खरसरवग्गलद्धिगुरुपयदलडंबरु॥ दिसिवालजक्खजक्खिणि-पमुहसुरकुसुमेहिं अलंकिओ। स सिद्धचक्कगुरुकप्पतरु अम्हह मणवंछिअ दिअओ॥१२०३॥ इच्चाइ नमुक्कारे, भणिऊण नरेसरो गहीरसरं । सक्कत्थयं भणित्ता, नवपयथवणं कुणइ एवं ॥१२०४॥
अष्टप्रकारायां पूजायां विहितायां-कृतायां सत्यां मङ्गलस्य अवसरे सङ्घन राज्ञः-श्रीपालस्य तिलकमालयोः मङ्गलकरणं कृतम् ॥ १२०२॥ ततश्चैत्यवन्दनं करोति, तत्रादौ नमस्कारमाह- यः श्रीसिद्धचक्ररूपो गुरुः-महान् कल्पतरुः-कल्पवृक्षो धुरि-1 आदौ अर्हन्नेव यन्मूलदृढपीढं तत्र प्रतिष्ठितः, कीदृशो ?-यः सिद्धसूर्युपाध्यायसाधव एव चतस्रः शाखास्ताभिर्गरिष्ठः-अतिमहान्, पुनदर्शनज्ञानचारित्रतपोरूपाभिः प्रतिशाखाभिःसुन्दरः, पुनः तत्त्वाक्षराणि ॐकारादीनि स्वराअवर्णादयःवर्गाअवर्गकवर्गादयः लब्धिपदानि अष्टचत्वारिंशद् गुरुपदानि-अर्हत्पादुकादीनि तान्येव दलानां-पत्राणामाडम्बरो यस्य स तथा, पुनः दिक्पालयक्षयक्षिणीप्रमुखैः सुरकुसुमैः अलङ्कृतः-शोभितः स सिद्धचक्रगुरुकल्पतरुः अस्मभ्यं मनोवाञ्छितं फलं ददातु ॥ १२०३॥ इत्यादि नमस्कारान् भणित्वा नरेश्वरो-राजाश्रीपालो गम्भीरःस्वरोयत्र कर्माणि तद्यथा स्यात् तथा शक्रस्तवं भणित्वा एवं-वक्ष्यमाणप्रकारेण नवपदानां संस्तवनं करोति ॥ १२०४ ॥
भ
For Private and Personal Use Only