Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
अ अ श्र
हा
२७४
*
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गयरहसहस्सनवगं, नव लक्खाइं च जच्चतुरयाणं । पत्तीणं नवकोडी, तस्स नरिंदस्स रज्जंमि ॥१२१४ ॥ एवं नवनवलीलाहिं चेव सुक्खाणि अणुहवंतो सो। धम्मनीईइ पालइ, रज्जं निक्कंटयं निच्वं ॥१२१५॥ रज्जं च तस्स पालंतयस्स सिरिपालनरवरिंदस्स । जायाई जाव सम्मं, नव वाससयाई पुन्नाई ॥१२१६ ॥ ताव निवो तं तिहुअणपालं रज्जंमि ठावइत्ताणं । सिरिसिद्धचक्कनवपयलीणमणो संथुणइ एवं ॥१२१७॥ सतिभवेहिं मणुएहिं जेहिं विहियारिहाइठाणेहिं । अज्जिज्जइ जिणगुत्तं, ते अरिहंते पणिवयामि ॥१२१८॥
तस्य श्रीपालस्य नरेन्द्रस्य-राज्ञो गजानां हस्तिनां रथानां च प्रत्येकं सहस्रनवकमासीत्, नव सहस्राणि गजाः नव सहस्राण्येव रथाश्चासन्नित्यर्थः, च पुनः जात्यतुरगाणां-सुलक्षणाश्वानां नव लक्षाणि आसन्, पत्तीनां पदातीनां नवकोटय आसन् ॥ १२१४ ॥ एवम् अमुना प्रकारेण नवनवलीलाभिः- नवनवक्रीडाभिरेव सुखानि अनुभवन् स श्रीपालो धर्मनीत्याधर्मन्यायेन नित्यं निष्कण्टकं राज्यं पालयति ॥ १२१५ ॥ राज्यं पालयतस्तस्य च श्रीपालनरवरेन्द्रस्य यावन्नववर्षशतानि सम्यग् पूर्णानि जातानि ॥ १२१६ ॥ तावन्नृपः श्रीपालस्तं पूर्वोक्तं त्रिभुवनपालं- स्वज्येष्ठपुत्रं राज्ये स्थापयित्वा श्रीसिद्धचक्रे यानि नवपदानि तेषु लीनं लग्नं मनो यस्य स सिद्धचक्रनवपदलीनमनाः सन् एवं वक्ष्यमाणप्रकारेण संस्तौति ॥ १२१७ ॥ शेषाः अवशिष्टास्त्रयो भवा येषां ते पुनर्विहितानि - कृतानि सेवितानीति यावत् अर्हदादिस्थानानि विंशतिस्थानकानि यैस्ते तथा तैः, एवंभूतैर्यैर्जिनगोत्रं - जिननामकर्म अर्ज्यते-उपार्ज्यते तान् अर्हतोऽहं प्रणिपतामि- नमस्कुर्वे ॥ १२१८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312