Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
आसन्नसेवयाणं, देवीणं बारस य बयंगाई । विज्जसुरिजक्खजक्खिणि- चउसट्ठिपएसु पूगाई ॥११९८॥ पीअबलीकूडाइं चत्तारि दुवारपालगपएसु । कसिणबलीकूडाई, चउवीरपएसु ठविआई ॥११९९॥ नवनिहिपएसु कंचणकलसाइं विचित्तरयणपुन्नाइं । गहदिसिवालपएसु अ, फलफुल्लाइं सवन्नाई ॥१२००॥ इच्चाइगुरुअवित्थर-सहि मंडाविऊणमुज्जमणं । ण्हवणूसवं नरिंदो, कारावइ वित्थरविहीए ॥१२०१॥
तथा-आसन्नसेवकानां-निकटसेवाकारिकाणांद्वादशदेवीनांद्वादश च वयङ्गानि-फलविशेषान्स्थापयति, चतुर्थाधिष्ठायकस्य द्वादशदेवीनां च नामानि न ज्ञायन्ते, तथाविधसम्प्रदायाभावात्, तथा 'विज्जसुरि' त्ति विद्यादेव्यः षोडश यक्षाश्चतुर्विंशतिः शासनसुराः यक्षिण्यश्चतुर्विंशतिरेव शासनदेव्यः एवमेतेषु चतुष्पष्टिपदेषु पूगानि-क्रमुकफलानि स्थापयति ॥११९८॥ चतुर्यु द्वारपालकपदेषु कुमुदादिषु चत्वारि पीतस्य-पीतवर्णस्य बलेः-पक्वान्नादेः कूटानि-पुजानि स्थापितानि, तथा चतुर्युवीरपदेषुमाणिभद्रादिषु कृष्णवर्णस्य बलेः-पक्वान्नादेः कूटानि स्थापितानि ॥११९९ ॥ नवनिधिपदेषु विचित्रै रत्नैः पूर्णानि-भृतानि काञ्चनस्य-सुवर्णस्य कलशानि स्थापितानि, तथा ग्रहपदेषु दिक्पालपदेषु च स्वस्ववर्णानि फलपुष्पाणि स्थापितानि ॥ १२०० ॥ इत्यादिना गुरुकेण-महता विस्तारेण सहितमुद्यापनं मण्डयित्वा नरेन्द्रो-राजा श्रीपालो विस्तारविधिना स्नपनोत्सवं-स्नात्रमहोत्सवं कारयति ॥ १२०१॥
For Private and Personal Use Only

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312