Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वेदेवाशान्तिब्रह्मशान्तिहसर्वशान्तिशान्तिवशान्तिहंसामाशान्तिरेधि ॥४॥ ययतहसमीहंसेततानोऽअभयङ्करु ॥शन कुरुपजांभ्योभयनपशुभ्यः ॥१॥ सुशान्तिर्भवतु ॥ देवतानमस्कार:-श्रीमन्महागणाधिपतयेनमः इष्टदेवताभ्योनमः कुलदेवताभ्योनमः ग्रामदेवताभ्योनमः स्थानदेवताभ्योनमः लावाणीहिरण्यगर्भाभ्यानमः श्रीलक्ष्मीनारायणाभ्यांनमः श्रीउमामहेश्वराभ्यांनमः शचीपुरन्दराभ्यानमः मातापितृचरणकमळेभ्योनमः सर्वेलाभ्योदेवेभ्यो नमः श्रीगुरुभ्योनमः परमगुरुभ्योनमः परमेष्ठिगुरुभ्योनमः परात्परगुरुभ्योनमः सर्वेभ्योब्राह्मणेभ्योनमोनमः निर्विघ्नमस्तु || सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि।विद्यारम्भे विवाहे च प्रवेशे निर्गमेतथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥ शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये| नमः।। सर्वमङ्गलमाङ्गल्येशिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ सर्वदासर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां । हृदिस्थो भगवान्मङ्गलायतनं हरिः। तदेवलग्नंसुदिनंतदेव ताराबलचन्द्रबलंतदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽतियुगं स्मरामि।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्रश्रीविजयो भूतिर्बुवानीतिर्मतिर्मम ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ विनायक |गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वती प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ | सङ्कल्पः-विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीये परादें श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमचरणे भरतवर्षे जम्बुद्वीपे रामक्षेत्रे परशुरामाश्रमे दण्डकारण्यदेशे श्रीगोदावर्याः पश्चिमदि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 110