Book Title: Shuklyajurvediya Graha Shanti Prayog
Author(s): Durgashankar Shastri
Publisher: Durgashankar Shastri

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra ग्रहशान्ति ० ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | मम शान्त्यर्थं दुरितक्षयकारकाः । ततः गायत्र्यादिभ्यो नमः इत्यनेन पञ्चोपचारैरभ्यर्च्य कलशं प्रार्थयेत् - देवदानवसंवादे मध्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्। त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वाय स्थिताः। त्वयि तिष्ठन्ति भूतानि त्वाये प्राणाः प्रतिष्ठिताः।। शिवः स्वयं स्वमेवासि विष्णुस्त्वं च प्रजापतिः । आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः । त्वयि तिष्ठन्ति भूतानि यतः कामफलप्रदाः । त्वत्प्रसादादिदं कर्म कर्तुमीहे जळोद्भव | सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा || नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाशय सुमङ्गलाय । सुपाशहस्ताय झषासनाथ जलाधिनाथाय नमो नमस्ते || पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक | पुण्याहवाचनं यावत्तावत्त्वं सन्निधो भव । ततः स्वस्तिवाचनार्थं युग्मविप्रान्संपूज्य ।। अवनिकृतजांनुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना स्वर्ण पूर्णकलशधारयित्वा | वदेत्- अँत्रीणि॑िप॒दी॑विच॑क्रम॒विष्णु॑ग्गो॒पाऽअदा॑भ्य ॥ अतो॒धम्मा॑णिघा॒रय॑न् ।। ।। विष्णोः पद्भ्यां प्रक्रमेण रक्षा भवति निश्चला । अतस्ताभ्यो हि रक्षाभ्यो धर्मान्संधारयेत्पुमान् । दीर्घानागानद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायुःप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्विति भवन्तो ब्रुवन्तु ।। विमा वदेयुः - तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।। पुनः- ॐत्रीणित आहुर्द्दविबन्ध॑नानि॒त्रीण्य॒प॑मु॒त्रीण्य॑त? स॑मु॒द्रे ।। उ॒तेव॑मे॒वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑तऽआ॒हुव॑र॒मव॒नित्र॑म् ।। 2 ।।+मार्कण्डेयप्रसादेन भवंति चिरजीविनः । तथा भवतु दीर्घायुः पुत्रपौत्रगणैर्मम ॥ दीघनागानद्यो गिरयस्त्रीणिविष्णुपदानिच ॥ तेनायुःप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्त्विति भवन्तो ब्रुवन्तु ||* तेनायुःप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥ पुनः- ॐ त्र॒याद॑वा॒ऽएका॑शत्र॒यस्त्रि॒िशा? सु॒राध॑स ं ॥ बृह॒स्पति॑ पु॒रोहि॑ता दे॒वस्य॑सवि॒तु? स॒वे ।। दे॒वादे॒वैर॑वन्तुमा ॥ २ ॥ + दीर्घायुषश्च सूर्याद्या महानद्यो हि पर्वताः । विष्णोः पदप्रमाणेन दीर्घमायुरवाप्नुयाम् ॥ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनायुः १ अर्चिता ब्राह्मणाः सम्यगन्धताम्बूलदक्षिणाः । तिष्ठेयुर्ब्राह्मणाः सम्यग्वक्तारो दर्भपाणयः ॥ तिष्ठेद्वाचयिता तेषां दक्षिणस्थ उदङ्मुखः ॥२ अवनीगतजानुभ्यां ततो मुकुलपद्मवत् । अंजलिं शिरस्याधाय प्रणमत्रिः पुनः पुनः ॥ ३ अत्र कलशधारणं आचार्यकर्तृकं धारयित्वेत्युक्तत्वात् ॥ परशुरामकारिकायाम् - आचार्य उदकुंभं तं धारयेत्तदनन्तरम् ॥ ४ हस्ते कलशमुद्धृत्य नमेत्रीणिपदादिभिः ॥ + इति यजमानो वदेत् इति ब्राह्मणा वदेयुः ॥ For Private and Personal Use Only पुण्याहवा चनम० ॥ ८ ॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110