Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
२२२ शिरुपररने
उत्तरभाग चतुर्वपि च भद्रषु द्विसप्ततिरुदाहताः । सप्तकोणाः समन्ताश्च द्विगुणा मनुसंख्ययया ॥ ११३ ॥ एवमादीन्यनन्तानि गेहानि धरणीभुजाम् । कियन्त्यपि मयोक्तानि प्रधानानि यथाक्रमम् ॥ ११४ ॥ तिष्ठन् गेहेषु शस्तेषु श्रियमाप्नोति पुष्कलाम् । आरोग्य विजयं कीर्ति सन्तोषं परमाप्नुयात् ॥ ११५ ॥ ईदृग्लक्षणसंयुक्तान् विविधान् बहुभूमिकान् । कारयित्वा महीपालः प्राच्यचन्द्र(इ? बोलं महत् ॥ इति विज्ञाय नृपतिर्वासार्थ गृहमुत्तमम् । सुलक्षणयुतं दोषैविहीनं कारयेत् सुखम् ॥ ११७ ॥ ईशानभागकोणे तु सर्वलक्षणसंयुतम् । पूर्वतो मुखशालाया देवतारूपचिह्नितम् ॥११८ ॥ देवकार्यगृहं कार्य नृपाणां सुमनोहरम् । सानगेहं तु तत्पार्थे कर्तव्यं वेदिकायुतम् ॥ ११९ ॥ होमशाला तदभ्याशे बहिः कुण्डविमण्डिता । धूमनिर्गमनोपायकृतजालपरिष्करा ॥ १२० ॥ अन्यान्युपगृहादीनि सुभक्तानि पुरैव हि । चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः ॥ १२१ ॥ गृहस्यान्तर्बहिःकुज्यमुखेषु च विभूषयेत् । पूर्वतः शिल्पिनो गेहं परिगृह्य विनिर्मितम् ॥ १२२ ॥ गोमयाद्यैर्जलायैश्च शुद्धिं विधिवदाचरेत् । अथ वास्तुबलिं विप्रैः कारयेत् तद्विधर्भिदाम् ॥ १२३ ॥ १. 'प्य' ख. पाठः.

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282