Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 264
________________ २४४ शिल्परले [उत्तरमाग एवं सुवर्णकीलानामिदं पूर्वोक्तलक्षणम् । अत्रानुक्तं शारिकापञ्जराचं भूषापेटीवस्त्रभाण्डादिकं च । हस्तैर्मात्रैर्वा यवै हविस्ता रायामाढ्यं कारयेद् युक्तियुक्तम् ॥ १५७६ ॥ इति शिल्परने उत्तरभागे आसनादिलक्षणं नाम त्रयस्त्रिंशोऽध्यायः ॥ अथ चतुस्त्रिंशोऽध्यायः । अथ कर्मकारवेतनाक्रमः। व्रीहीणां वाथ शालीनां प्रस्थषट्कं यदेव मा। प्रायेण तक्षकादीनां दृश्यते नित्यवेतना ॥१॥ एतद् द्विगुणितं दद्यात् स्थपतेस्तविसङ्गुणम् । गुरोरिति महद् वाक्यमस्ति शास्त्रेति शुश्रुमः ॥ २॥ अथ दारुखण्डिज्ञानं -- दारूणां मूल्यविज्ञाने तदायामस्य मध्यतः । त्वचं सारेतरं सर्व त्यक्त्वा नाहं परिग्रहेत् ॥ ३ ॥ तन्नाहाङ्गलिवेदांशे स्वन्ने दार्वायतैः करैः । सङ्गुण्य वेदमनुभिः संहता पादखण्डिका ॥ ४॥ तचतुष्कं पूर्णखण्डी तद्वारा मूल्यमादिशेत् । समभूगतवृक्षस्यच्छायामानकरं पुनः ॥ ५॥ त्रयोदशहतं स्वस्यच्छायापदयुगाहतम् । तरुदीर्घकरं ज्ञेयं नाहं मूलप्रदेशतः ॥ ६ ॥

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282