Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
स्वर्णकालम् ] त्रयस्त्रिंशोऽध्यायः ।
२४३ अङ्गुलं + + + कामिर्घटिकावलयं तथा(?) । आवर्तनं च निर्माय बद्ध्वान्योन्यं यथाविधि ॥ १४७ ॥
जलैर्वालुकभाराद्यैर्धामयेद् यन्त्रयन्त्रितम् अथ स्वर्णकीलंस्वर्णकीलस्य वक्ष्यामि लक्षणं वर्णसिद्धये ॥ १४८ ॥ पञ्चवर्णादिपादोनरुद्रवर्णावसानकम् । पादवर्णविवृद्धया तत्कीलं स्याद् द्वादशद्वयम् ॥ १४९ ।। आदौ द्वादशकीलानां बहिभीगे तु लाञ्छनम् । अन्तर्भागे तदन्यानामिति पूर्वैरुदाहृतम् ॥ १५० ।। छेदपञ्चकमाद्यस्य वृत्तत्रयमतःपरम् । आवर्तद्वयमन्यस्य वृत्तमेकं परस्य तु ॥ १५१ ।। अन्ये छेदचतुष्कं तु वृत्तोर्ध्वविपदं परे। केवलं हंसपादोऽन्ये हंसपादोपरिस्थितम् ॥१५२ ॥ छेदश्छेदत्रयं पश्चात् कर्णरेखा ततः परम् । छेदद्वयं तथा पश्चादेकच्छेदस्तथैव च ॥ १५३ ।। अथोर्ध्वद्वादशस्याये कर्णरेखाद्वयं विदुः । एकैव + तथा कर्णरेखान्यस्य तथा पुनः ॥ १५४ ॥ हंसपार्दै तथान्यस्य पञ्चच्छेदं परस्य तु । . चतुष्कं छेदरेखानां त्रिकं च द्विकमेककम् ॥ १५५ ॥ दशवर्णस्य कीलस्य नोक्तं किमपि लाञ्छनम् । वृत्तत्रयं द्विवृत्तं च वृत्तमेकमतःपरम् ॥ १५६ ॥ १. 'छे' क. पाठः.

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282