Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 267
________________ अथ पञ्चत्रिंशोऽध्यायः । অয় অন্তুথগমু। शस्त्र प्रश्नः पूर्वपक्षे पृच्छकस्याशुभाय च। शुभवारे तथा वामभागगे पृच्छकेऽपि वा ॥१॥ शुभाय दक्षिणे कृष्णपक्षे पापवारके(१)। " यत्र दूतः समायाति तद्गतश्चेत् तदा मरुत् ॥ २ ॥ तच्छस्त्रमिष्टफलदमन्यथानिष्टदं वदेत् । दूते मरुति दक्षस्थे शुभमन्यत्र मध्यमम् ॥ ३ ॥ दूरादाहूय वा मार्गे यात्रासमयतोऽथवा । प्राभृतेन विना मौनमानसो यदि पृच्छति ॥ ४ ॥ तत्कार्यमशुभं विद्धि तत्र शस्ने विशेषतः । स्नानभूषादिसंयुक्तो मृष्टाशी हृष्टमानसः ॥ ५॥ पृच्छको वा स्वयं वा चेच्छुभं स्यादन्यथाशुभम् । नागवल्लीदलं पूगं पुष्पमुर्वारुकादिकम् ॥ ६॥ . केरवृक्षफलं वेक्षुविकारं कदलीफलम् । गोरसानि च मुख्यानि प्रांभृतानि विशेषतः ॥ ७॥ भिन्ने अर्णेि नीरसे वा प्राभृतेऽप्यशुभं ववेत् । कुट्टिमोपरि विन्यस्य पादमेकं परं भुवि॥ ८॥ . . पृच्छेदशुभदं विद्यादूर्ध्वमालोक्य चेत् तथा । कक्षे विन्यस्य पृच्छा चेत् पृष्ट्वा पश्चागतोऽथवा ॥९॥ तस्कराचैः क्षयं ब्रूहि शुभं वक्षसि मेलनम् । सच्छिद्रमायुधं विद्यान्नवद्वारगते करे ॥ १०॥

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282