Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 268
________________ शिरपरत्वे छिद्रम धद्वारस्पर्शनेऽन्यत्र चेदधः । अङ्गसन्धौ करं न्यस्येच्छस्त्रे संधानमुच्यताम् ॥ ११ ॥ पृच्छकश्चलपादश्चेदाशु गच्छति तत्करात् । कृपाणे निश्चलीभूते हिंसादौ न प्रशस्यते ॥ १२ ॥ भूमौ कृपाणं विन्यस्य पृष्ठे निष्फलतां वदेत् । मध्ये गृहीत्वा चेदेवं शस्त्रमालोक्य चेच्छुभम् ॥ १३ ॥ निम्नभूमिगते दूते स्वस्मादुत्तमजातितः । औन्नत्यभूमिगे नीचात् स्वीकृतासीति कथ्यताम् ॥ १४ ॥ तत्पूर्वेऽह्नि यथा स्वस्य सुखदुःखाशनादिकम् । तथास्य स्वीकृतिदिने सम्यमूह्य विनिर्दिशेत् ॥ १५ ॥ कण्ठादूर्ध्वाङ्गसंस्पर्शे ब्रह्मवंशं कृपाणकम् । तदधः स्तनयोरूर्ध्वे क्षत्रवंशं न संशयः ॥ १६ ॥ स्तनादधः कटेरूर्ध्वे वैश्यवंशमिहायुधम् । २४८ . [ उत्तरभागः कट्यधः शूद्रवंशं स्यादिति निश्चित्य निर्दिशेत् ॥ १७ ॥ तत्कालोदयराशिर्वादूतगो वा तदायुधम् । । हृश्यते यत्र तद्राशिर्न्यस्तराशिरथापि वा ॥ १८ ॥ स्थिरक्षेच्छुभदं ब्रूयात् तदन्यौ मध्यमौ स्मृतौ । मेषत्रिकोणा विप्राद्या जातिभेदा भवन्ति हि ॥ १९ ॥ अनामिकाङ्गुलस्याद्यद्वितीय पर्वायतम् (?) । दक्षिणस्थ करस्याहुर्मिलित्वा मानसाधनम् ॥ २० ॥ १. 'स्पू' घ. पाठः. २. 'होदितम् ।' क. पाठः.

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282