Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
२४६ शिल्परले
[स्तरमागः अन्योन्यमैलने तक्ष्णस्तुल्या प्रायेण कल्पिता । अथ बिम्बादौ -
यावदङ्गुलमुत्सेधं शिलादादिकल्पिते ॥ १६ ॥ बिम्बे तावत् पणः प्रोक्तस्तदर्ध वात्र चित्रके। हस्तायामवितानाढ्यफलकादौ विचक्षणैः ॥ १७ ॥ पणपञ्चकमाख्याता वेतना चित्रलेखने। अथ लोहानां - प्रायशः स्वर्णकारस्य वेतनार्कदशांशकम् ॥ १८ ॥ भूषादिकरणे किञ्चिन्न्यून वाप्यधिकं क्वचित् । द्राविते तापिते लोहकूटेनाभिहतेऽपि वा ॥ १९ ॥ पूर्वप्रमाण(मो ? तो) हानिन स्वर्णस्य मनागपि । दृश्यते रजते हानिर्देशांशादिक्रमेण तु ॥ २०॥ शुद्धताने न हानिः स्यात् सीसे नागेऽथ पैत्तले । कृष्णलोहे च पञ्चांशं कांस्ये हानिर्दशांशतः ॥२१॥ एतेषां कर्मकर्तृणां तत्तद्रव्यदशांशकः । प्रायेण वेतना प्रोक्ता षडंशं रजते स्मृतम् ॥ २२ ॥ लोहदारुदृषत्तन्तुमृत्तिकादिकृतामिह । कुटुम्बपोषणापूर्णा पूर्णा वा स्याद द्विवेतना ॥ २३ ॥ इति शिल्परत्ने उत्तरभागे वेतनाक्रमविधिर्नाम
चतुरिंशोऽध्यायः !!
-
Jaste
१. 'दो' क. पाठः. २. 'तद्दशां' ख. पाठः. ३. 'द्धि वे' क. पाठः,

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282