Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 265
________________ २१५ कर्मकारवेतनाक्रमः] चतुस्त्रिंशोऽध्यायः । - गृहीत्वा तविभागोनशेवं नाहं प्रकल्पयेत् । एवं स्थितस्य वृक्षस्य खण्डिज्ञानं विधीयते ॥ ७ ॥ अथ क्रकचं - क्रकचैर्बहुधा दारौ दारिते सुमहामतिः। पृथक् तत्खण्डविस्तारं मात्वा मात्रैः पृथक् पृथक् ॥ ८ ॥ क्रकचस्पृष्टपार्वेषु तत्तदायामभैध्यतः । तदङ्गुलाधं गुणयेदायामकरमानतः ॥ ९ ॥ हृत्वा तस्माद् द्वादशाभस्तत्फलं क्रकचं स्मृतम् । क्रकचानां समं प्रस्थशालिकं कथ्यवेतना (१) ॥ १० ॥ तहशांशं स्थपतये दत्त्वा शेषं परिग्रहेत् । वृक्षाणां छेदने तेषां दारणे तक्षणादिषु ॥ ११॥ तत्काठिन्यमृदुत्वादिवशान्न्यूनं तथाधिकम् । कल्पयेद् वेतना यस्तु तत्तत्कर्मकृतास्तथा (2) ॥ १२ ॥ दशांशकं स्थपतये देयमष्टांशकं तु वा । अथ शिलायाःशिला कीलचतुष्केण यावत्करमितायता ॥ १३ ॥ दारिता वेतना तस्या ब्रीहिप्रस्थं न संशयः । दारणद्विगुणं तक्ष्णे सुश्लक्ष्णीकरणे पुनः ॥१४॥ तस्माद् द्विगुणमेवं स्याद् यावच्छायात्र दृश्यते । पूर्वस्माद् द्विगुणा पश्चाद् वेतना शिल्पकारिणाम् ॥१५॥ १. 'र', २. 'मुद्धृतः' ख. पाठः. ३. 'तं तथा' क. ग. पाठः. १. 'को' ख. पाठः. - GG2

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282