Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
হাল पञ्चत्रिंशोऽध्यायः ।
मात्वा मूलाग्रमायामं दशभिर्गुणयेत् पुनः । आयमर्कहताच्छेषं नवभिरथ वर्धयेत् ॥ २१ ॥ चतुर्दशहृतं शेषं व्ययं शस्त्रस्य निश्चयः । त्रिमे अष्टहताच्छेषं योनिः स्यान्नवाभिः पुनः ॥ २२ ॥ हत्वा त्रिपश्चकैर्हत्वा शेषेण तिथिमानयेत् । कृत्वा दशगुणं सप्तविंशत्या तारमानयेत् ॥ २३ ॥ हत्वा चतुर्भिर्वारः स्याच्छैलाहरणशेषतः । आयाधिक्यं व्ययाद् भद्रमथ योन्यष्टकस्य तु ॥ २४ ॥ ध्वजमार्जारपश्चास्यश्ववृषाखंशशाः क्रमात् । योनयस्तेषु शुभदास्तायसिंहश्वगोर्वेषाः ॥२५॥ अथवा ध्वजधूमादीन् कल्पयेद् यदि कथ्यते । अर्थलाभश्च कलहो विजयं रोगमेव च ॥ २६ ॥ लाभं दुःखं शुभं तद्वन्निष्फलं च क्रमात् फलम्। करणे सिंहशार्दूलौ पशुवृष्टिगजाः शुभाः ॥ २७ ॥ स्थिरविष्टिखराः शस्त्रे करणेषु विनिन्दिताः । स्वाङ्गक्षतिस्तु गण्डान्ते शुभवारः प्रशस्यते ॥ २८ ॥ खस्य स्ववंशजं शस्त्रं मुख्यमाहुर्मनीषिणः । व्ययायौ योनिनक्षत्रतिथिवारान् समूह्य तु ॥ २९ ॥ यज्जातं तत्तदायुस्तत् पश्चधा विभजेत् पुनः । बाल्यकौमारकादीनि शेषादानीय तद् वदेत् ॥ ३० ॥
१. 'सिंहमा' क. पाठः. २. 'खरगजाः क', ३. 'गजाः' प. पाठः. ५. 'ल्प्यते य' ख. पाठः.

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282