Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
२४२
शिल्परत्ने
[उत्तरभागः
करोति भ्रमणं तस्मात् तन्मध्यन्यस्तमैक्षवम् ।
खण्डं संपीड्य निस्सारं पतत्यन्यत्र तत्क्षणात् ॥ १३७ ॥
-
अथ नाडीयन्त्रं
शुद्धताम्रादिक्लृप्तं यत् कपालं वर्तुलाकृति । सर्वतस्तुल्यघनमप्यत्यन्तं लघु तस्य तु ॥ १३८ ॥ मध्ये सूच्यवेधेन कृत्वा सुषिरमल्पकम् | कारयेद् घटिकायन्त्रं कालज्ञानाय सर्वतः ॥ १३९॥ गालितं जलमादाय महद् भाण्डं प्रपूरयेत् | घटिकायन्त्रमादाय तज्जलोपरि विन्यसेत् ॥ १४० ॥
सुषिरेणागतजलैस्तत्पूरणनिमज्जनात् । कालो विज्ञायते सम्यक् तत्परीक्षणमुच्यते ॥ १४१ ॥ खमध्यगेऽश्विनीपूर्व तारेष्वन्यतमे बुधः ।
न्यस्य यन्त्रं यथान्यायं विनिद्रः प्रतिपालयेत् ॥ १४२ ॥ यावत् परेऽह्नि तत्तारं खमध्यमधिगच्छति ।
तत्र यन्त्रस्य संजातं षष्ट्यावृत्तिनिमज्जनम् ॥ १४३ ॥ तर्हि सूक्ष्मं भवेद् यन्त्रं नो चेत् सूक्ष्मत्वमाचरेत् । अथवा सुषिरीभूतं काचपात्रद्वयं मिथः || १४४ ॥ सुसूक्ष्मवालुकापूर्ण सम्यक् संयोज्य तेन वा । नाडीपरीक्षणं युक्त्या कार्यं तत्सिकतास्रवात् ॥ १४५ ॥ ऊर्ध्वपात्रस्थसिकतं निरवशेषमधेः स्थिते ।
पात्रे पतनकालं यत् तन्नाडीति निगद्यते ॥ १४६ ॥
१. 'व' क. पाठः. २. 'ते अथ स्वर्ण' ख. पाठः.

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282