Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 260
________________ शिल्परने पट्टिकाभिनैमिबाह्ये परितः परिवेष्टयेत् । तिर्यग्गताभिः सुदृढं सान्तरं वृषयोनिकम् ॥ ११६ ॥ तद् यन्त्रं चतुरश्राभं दण्डप्रोतस्वनाभिकम् । सुवृत्तं तद्दण्डिकाग्रइयं तु भ्रमणक्षमम् ॥ ११७ ॥ जलाशयोपरि यथा तथा स्तम्भेषु योजयेत् । पाशे बद्ध्वा त ( सः ? तः) पात्रं प्रक्षिपेत् तज्जलाशये ॥ तत्पाशायं यन्त्रपृष्ठे वेष्टयित्वा वृतिद्वयम् । आकृष्योद्धरणं कार्य जलस्य लघु यत्नतः ॥ ११९ ॥ अथवा जलपात्राणि वेणुनालकृतानि वै । बहूनि पाशे सम्बध्य मालाकारं निरन्तरम् ॥ १२० ॥ मुखे पृष्ठं परस्यास्य मुखेऽन्यस्य यथा तथा । यन्त्रपृष्ठे क्षिपेन्मालां जलपात्रमयीमिमाम् ॥ १२१ ॥ भ्रामयेद् यन्त्रमथ तत्तीरगैर्वा महावृषः । तद्दण्डिकास्थसुमहद्यन्त्रान्तरगतैर्नरैः ॥ १२२ ॥ पात्राणि तोयमादाय गत्वोर्ध्वं यन्त्रपृष्ठतः । प्रक्षिप्य गच्छन्ति पुनस्तद्भ्रमक्रममानतः ॥ १२३ ॥ तुलायन्त्रेण वा तोयोद्धारणं ततु कथ्यते । कूपाद्यगाधमानेन दशभागकृते पुनः ॥ १२४ ॥ तदष्टांशोन्नतं पादद्वन्द्वं तीरेऽब्धिभागतः । दूरे संस्थाप्य पादाग्रे दण्डं भ्रमरिकान्वितम् ॥ १२५ ॥ बद्ध्वा भ्रमरिकायां तु तुलादण्डं च योजयेत् । पादतुल्य समायामं भ्रमरादूर्ध्वगं पुनः ॥ १२६ ॥ २४० [उत्तरभागः

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282