Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 258
________________ शिरूपरल्ने । यत्र षोडशकं जातं धनसंज्ञकमङ्गुलम् । आढकोऽयं समाख्यातः सर्वधान्यादिमापने ॥ १० ॥ चतुःषष्टियुतं यस्मिन् धनमष्टशताङ्गुलम् । द्रोणोऽयमयुतादूर्ध्व त्रिसाहस्रघनाङ्गुलम् ॥ १०१ ॥ शतानामष्टकयुतं चतुर्विंशत्समन्वितम्। खारीति विदिता तज्ज्ञैः सर्वे वै दारुलोहजाः ॥१.२॥ यथा तेषां बहिर्भागे शुभायादिसमुद्भवः । तथा भित्तेधनं कुर्यात् सङ्क्रमीथं च लोहजम् ॥ १०३ ॥ ऊर्ध्वभागे तु तन्मध्ये तदाधाराय लोहजम् । पादं च पत्रचित्राढ्यं भित्तिबाह्ये सशृङ्खलम् ॥ १०४ ॥ दण्डं सुवर्तुलं लौहं कार्य धान्यापसारकम् । तुर्यश्रे व्यासगुणितमायामगतमात्रकम् || १०५ ॥ तहाताङ्गुलनिम्नं यत् तत् दन्तर्घनाङ्गुलम् । वृत्ते व्यासार्धगुणितं नाहार्धं घातताडितम् ॥ १०६ ॥ अथोलुखलादिहस्तमात्रससुत्सेधं वर्तुलं लघुमध्यमम् । आयामा त्रिपादं वा तारं तत्रयंशमानतः ॥ १०७ ॥ गर्तस्य घातं तारं च शैलं वा वाक्षमेव वा ! उलूखलाघिमित्येवं कारयेत् सुदृढं यथा ॥ १०८ ॥ सारदारुकृतान्येव मुसलानि भवन्ति हि । पञ्चाङ्गुलोनविकरायायतानि दृढानि च ॥ १.१ ॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282