Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
शिल्परने
তিশা अचलश्च चलश्चैव वेत्रकः पट्टिकामयः। डोलाख्यश्चेति कथिता शय्या विद्वद्भिरष्टधा ॥ ७९ ॥ द्विपद(न्त)कृतैः पादैश्चतुर्भिरुपशोभितः । दन्ताद्धिर्नाम मञ्चोऽयं सर्व(मञ्च ? दन्त)मयः शुभः ।। ताम्रारकूटघटितैश्चरणैस्तन्मयैः शुभैः । लोहमञ्चकनामायं सुदृढः परिकीर्तितः॥ ८१ ॥ चारुचामीकरानहो रचनापरिरञ्जितः । अष्टापदमयः प्रोक्तो मञ्चकोऽयं चतुष्पदः ॥ ८२॥ यन्त्रयन्त्रीकृतै दैरानन्दं तनुते नदन् । अचलोऽयं समाख्यातो रतिकेलिसुखावहः ॥ ८३ ॥ उपवेशनमात्रेण गच्छत्यूर्ध्वमधश्च यः । दृढाघ्रिश्चारुरूपश्च चलमञ्चः प्रकीर्तितः ।। ८४ ॥ त्वग्भिवेत्रस्य बाह्याभिस्तनुभिर्गुम्फितो धनम् । आयामतिर्यकर्णाभिर्यथादृष्टिमनोहरम् ।। ८५ ॥ स्पर्श मन्दरवाळ्यश्च वेत्रमञ्चः प्रकीर्तितः । कासगुणक्लप्ताभिः सुपट्टाभिः सुगुम्फितः ॥ ८६॥ दीर्घाभिश्चित्रवर्णाभिर्मञ्चोऽयं पट्टिकाभिधः । श्रीकण्ठदारुघटितो नदत्काञ्चनभूषितः ॥८॥ फलकामस्तु(?)तन्नीव्रफलकाचित्रसंयुतः। सौवर्णशृङ्खलाबद्धो लम्बमानः स डोलकः ।। ८८ ।। मञ्चानामायतं तारं शय्यावत् कारयेद् बुधः । आधारमुपधानस्य मञ्चतारसमायतम् ॥ ८९ ॥ १. 'मयस्तु' क. पाठः.

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282