Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 257
________________ २३७ कुडुबादिमानसाधनम्] त्रयस्त्रिंशोऽध्यायः । तदर्धं वा त्रिपादं वा तुझं तत्सममेव वा । फलकं जालकं वाथ कारयेदनमूलयोः ॥ ९० ॥ शिरोपधानं पादोपधानं कार्य यथाशुभम् । शय्यातारसमायामं तदर्धविपुलान्वितम् ॥ ९१ ॥ तूलादिपूरितं प्राग्वञ्चतुष्कोण समन्वितम् । वृत्ताकारं तु वा कुर्यान्नानावर्णविचित्रितम् ॥ ९२ ॥ अथ पादुकम् लघुदारुकृतं चारु सुस्निग्धं पादसंयुतम् । तत्तत्पादतलायामविस्तारं सुलघुक्रियम् ॥ ९३ ॥ लघुच्छत्रकृताधारं पादसौख्यप्रदं परम् । नात्युच्छ्रितं नातिनीचं कारयेत् पादुकद्वयम् ॥ ९४ ॥ छागत्वचाथ वा कार्य नानाचित्रविचित्रितम् । शुभयोन्यादिसंयुक्तं स्वर्णरत्नविभूषितम् ॥९५ ।। एतेषामपि वस्तूनां हस्तैङ्गुिलकैर्यवैः । यथासम्भवमायादि परिध्यादिषु कारयेत् ॥ ९६ ॥ अथ कुडुबादिमानसाधनम् - वृत्तं वा चतुरश्रं वा धान्यादेर्मानसाधनम् । एकाङ्गुलमितं तारं दीर्घ घातं च तत्समम् ॥ ९७ ॥ यत्तद् धनाङ्गुलं प्रोक्तं तेनाहुस्तस्य लक्षणम् । . सार्धत्रयोदशमितं यत्र जातं घनाङ्गुलम् ॥ ९८ ॥ कुडुबोऽयं समुद्दिष्टः चतुष्पञ्चाशदङ्गुलः । घनरूपं यत्र दृष्टं प्रस्थः स्याद् द्विशतोत्तरम् ॥ ९९ ॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282