Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 248
________________ २२८ शिल्परले [उत्तरमागः अकचटतपयशवांश्चन्द्राधान्तरसतुल्याः । सास्थिनि देहे स्पों नेष्टः शिष्टेषु पुष्टफलम्॥ १४ ॥ मांसाठ्ये पङ्कयुतं फाले पाषाणसंयुक्तम् । प्रष्टरि तोयगते चेत्तोयं सुलभं तथा दृषद् दृषगे॥१५॥ रुदिते क्षबथौ कासे निष्ठीचे नासिकासवे ॥ १६ ॥ शीतच्छायाप्रवेशे च जले दृष्टे श्रुतेऽथवा । जलमस्तीति वक्तव्यं पृष्टकाले दृषद्यपि ॥ १७ ॥ इति शिल्परत्ने उत्तरभागे कूपप्रश्नविधानं नाम द्वात्रिंशोऽध्यायः ।। अथ त्रयस्त्रिंशोऽध्यायः । अथासनादिपरिच्छदलक्षणम् । चम्पकाम्रमधूकैर्वा पनसोदुम्बरादिभिः । पीठानि कारयेद् विद्वान् सिंहयोन्यन्वितानि वा ॥१॥ गजयोन्यन्वितान्येवं ध्वजयोन्यन्वितानि वा। आयतं चतुरश्रं च समं तुर्यश्रमेव वा ॥२॥ वृत्तं वा कच्छपाकारं कारयेत् पीठमुत्तमम् । चतुष्पादसमायुक्तं पृष्ठाधारयुतं तु वा ॥ ३ ॥ यथोचितोन्नतोपेतं श्लक्ष्णं दृष्टिमनोहरम् । फलकामयमेवं स्याद् वेत्रबन्धमथापे वा ॥ ४ ॥ एतत् पूतासनं देवकार्यादौ विहितं बुधैः । कार्पासपूरितं वृत्तं स्थूलं पट्टावकुण्ठितम् ॥ ५॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282