Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 251
________________ भासनादिपरिच्छदलक्षणम् ] त्रयस्त्रिंशोऽध्यायः । (धू? पूर्वच्छिन्नो (यदिवा) दारुरतद्वत् परीक्ष्य(मा ? आ)रम्भे। यद्यारोहेत् तस्मिन् *कुमारादिकावस्त्रपशुदः सन् (?) ।। २६ ॥ (सितकुसुम)मत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि । मङ्गल्यान्यन्यानि च दृष्टारम्भे शुभं ज्ञेयम् ॥ २७ ॥ कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गुलशतं नृपाणां महती शय्या जयाय कृता ॥ २८ ।। नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च । नृपपुत्रमान्त्रबलपतिपुरोधसां स्युर्यथासङ्ख्यम् ॥ २९ ॥ अर्धमतोऽष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः। आयामत्र्यंशसमः पा(दो)च्छायः सकुक्षिशिराः॥ ३० ॥ यः सर्वः श्रीपा पर्यको निर्मितः स धनदाता। असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः ॥ ३१ ॥ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुमो धर्मयशोदीर्घजोवितकृत् ॥ ३२ ॥ पद्मकपर्यङ्कः श्रियमायुर्दीर्घ श्रुतं शुभं वित्तम् । कुरुते सालेन कृतः कल्याणं शाकरचितश्च ॥ ३३ ॥ अन्येन समायुक्ता न तिन्दुकिः शिंशपा (च) शुभफलदा । न श्रीपर्णी नच देवदारुवृक्षो नचाप्यसनः ॥ ३४ ॥ . शुभदौ तु सालशाको परस्परं संयुतौ पृथक्त्वे च । तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदम्बौ॥ ३५॥ फलतरुणा शयनासनभिष्टफलं भवति सर्वेषाम्। गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगा(त्) ॥ ३६ ॥ * 'कुमारकः पुत्रपशुदः सः' इति पाठः स्यात् ।

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282