________________
भासनादिपरिच्छदलक्षणम् ] त्रयस्त्रिंशोऽध्यायः । (धू? पूर्वच्छिन्नो (यदिवा) दारुरतद्वत् परीक्ष्य(मा ? आ)रम्भे। यद्यारोहेत् तस्मिन् *कुमारादिकावस्त्रपशुदः सन् (?) ।। २६ ॥ (सितकुसुम)मत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि । मङ्गल्यान्यन्यानि च दृष्टारम्भे शुभं ज्ञेयम् ॥ २७ ॥ कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गुलशतं नृपाणां महती शय्या जयाय कृता ॥ २८ ।। नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च । नृपपुत्रमान्त्रबलपतिपुरोधसां स्युर्यथासङ्ख्यम् ॥ २९ ॥ अर्धमतोऽष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः। आयामत्र्यंशसमः पा(दो)च्छायः सकुक्षिशिराः॥ ३० ॥ यः सर्वः श्रीपा पर्यको निर्मितः स धनदाता। असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः ॥ ३१ ॥ यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः । चन्दनमयो रिपुमो धर्मयशोदीर्घजोवितकृत् ॥ ३२ ॥ पद्मकपर्यङ्कः श्रियमायुर्दीर्घ श्रुतं शुभं वित्तम् । कुरुते सालेन कृतः कल्याणं शाकरचितश्च ॥ ३३ ॥ अन्येन समायुक्ता न तिन्दुकिः शिंशपा (च) शुभफलदा । न श्रीपर्णी नच देवदारुवृक्षो नचाप्यसनः ॥ ३४ ॥ . शुभदौ तु सालशाको परस्परं संयुतौ पृथक्त्वे च । तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रककदम्बौ॥ ३५॥ फलतरुणा शयनासनभिष्टफलं भवति सर्वेषाम्। गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगा(त्) ॥ ३६ ॥
* 'कुमारकः पुत्रपशुदः सः' इति पाठः स्यात् ।