________________
शिल्परले
[उत्तरभाग: मयूरपिञ्छसम्भूतं वृत्ताकारावेचित्रितम् । तालवृन्तामति ख्यातं ध्वजयोनिसमन्वितम् ॥ १६ ॥ चामरं चमरीपुच्छसम्भवं स्थूलमूलकम् । कृशाग्रं सुसितं स्निग्धं तयोर्दण्डं च कारयेत् ॥ १७ ॥ हेमजं रत्नखचितं वृत्तं सुस्पर्शमेव च । चन्द्रमण्डलसङ्काशं नानापट्टविनिर्मितम् ॥ १८ ॥ तालवृन्तविशेषं तद् व्यजनं समुदाहृतम् ।
तालपत्रसमुद्भूतमभ्रकालङ्कृतं तु वा ॥ १९ ॥ अथच्छत्रं
चन्द्रमण्डलसङ्काशं पङ्कजाकारमेव वा । लम्बितानेकवरणनीप्रयुक्तमथापि वा ॥ २० ॥ सदण्डं मकुटोपेतं वंशसूत्रादिनिर्मितम् । नानाविधपटीच्छन्नं ध्वजयोनिसमन्वितम् ॥ २१ ॥ चित्रितं पट्टसूत्राद्यैश्च्छत्रमेवं समीरितम् । तालीपत्रकृतं वापि वंशदण्डं विशेषतः ॥ २२ ॥ मकुटेनान्वितं वापि वर्जितं वा सुशोभनम् । सितपट्टकृतं रत्नदण्डं पङ्कजसन्निभम् ॥ २३ ॥ सरत्नहेममकुट मुक्तादामविभूषितम् । सितग्छत्रमिदं ख्यातं सार्वभौमोचितं स्मृतम् ।। २४ ।। प्रतिषिद्धवृक्षनिर्मितशयनासनसेविनां कुलविनाशः । व्याधिभयव्ययकलहा भवन्त्यनाश्च नैकविधाः ॥ २५ ॥