________________
भासमादिपरिच्छदलक्षणम् ] प्रयस्त्रिंशोऽध्यायः ।
२२९ हसपिञ्छभृतां वापि सुखासनमितीरितम् । छागधर्ममयं पीठमूर्णागर्भ सुधिस्तृलम् ॥ ६ ॥ नानावर्णविचित्रं तदासनं च सुखाभिधम् । तिलपट्टपिनद्धैश्च हंसपिम्छैः सुपूरितम् ॥ ७ ॥ स्वेद +++++++ शय्यासनमुत्तमम् । पश्चभिः सप्तभिर्वापि नवभिलोहजैः पदैः ॥ ८ ॥ लोहपट्टकृताधारैर्लोहजालकमूर्धभिः। (छटिको ?) पट्टगमस्थकार्पासेन विनिर्मितम् ॥ ९ ॥ लोहासनमिदं प्रोक्तमूर्ध्वतः कलितं दृढम् । एकदारुकृतं श्लक्ष्णं दन्तिदन्तसुचित्रितम् ॥ १० ॥ नानावर्णविचित्राढ्यं पृष्ठे फलकसंयुतम् । चतुष्पादकृताधारं सार्धहस्तविशालकम् ॥ ११॥ प्रायेण सार्धत्रिकरदीर्घ तस्योर्ध्वतः पुनः । तावन्मात्रायतायुक्तमृदुशय्यासनादिकम् ॥ १२ ॥ ईषत् समुन्नतं राज्ञां पृष्ठाधारासनं स्मृतम् । रुचिरेण सुवर्णेन निर्मितं रत्नमण्डितम् ॥ १३ ॥ अष्टाभिः स्फाटिकैः सिंहैः मूर्धभिः सुविधारितम् । अधः काञ्चनविन्यस्तरत्नवेदित्रयान्वितम् ॥ १४ ॥
आस्थानमण्डपे राज्ञां सिंहासनमिदं वरम् । अथ व्यजनं.---
चामर तालवृन्तं च द्विवेचं व्यजनं स्मृतम् ।। १ .