Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 253
________________ वाहनम् ] त्रयस्त्रिंशोऽध्यायः । २३३ एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभि)रात्मजवृद्धिकरं चतुर्भिरर्थों यथाश्चाग्र्यम् ॥ ४८॥ पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते । षट्सप्ताष्टतरूणां काढुर्घटिते कुलविनाशः ॥ ४९ ॥ भूमयो ब्राह्मणादीनां यथोक्ता वास्तुकर्मणि 1 ता एव तेषां शस्यन्ते देवतायतनेष्वपि ॥ ५० ॥ अथ वाहनम् - डोला सुखासनं तद्वद् रथो नौः प्लवकस्तथा । वाहानि पञ्च ज्ञेयानि नराणां कृत्रिमाणि वै ॥ ५१ ॥ सुवक्रया वेणुजया हेमरत्ननिबद्धया । स्वर्णशृङ्खलया पट्टन्यस्तशय्योपधानया ॥ ५२ ॥ दिव्यपट्टप्रच्छदया वाहकहयवाह्यया । एकदण्डिकया नद्धं डोलायानं तदुच्यते ॥ ५३ ।। दन्तिदन्तकृतं हेमरत्नजालविभूषितम् । शार्दूलचर्मसंनदं दण्डकद्वयधारितम् ॥ ५४ ॥ चतुर्भिर्वाहकैर्वाह्यं हंसशय्यासमन्वितम् । पृष्ठाधारण संयुक्तं सुखासनमिति स्मृतम् ॥ ५५ ॥ वक्ष्यमाणक्रमं चोक्तलक्षणाकारलक्षितम् । निर्मितं दन्तिदन्तायैानावर्णविचित्रितम् ॥ ५६ ॥ हेमरत्नसमाकीर्ण मृदुशय्यास्तृतान्वितम् । डोलोक्तमार्गसंबद्धदण्डया च समन्वितम् ॥ ५७ ॥ तद्दण्डमध्यसंलम्बहस्ताधारसमन्वितम् । यानं यत्तु तदेव स्याङ्डोलाभेदमिति स्मृतम् ॥ ५८ ॥ FF

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282