Book Title: Shatsthanak Prakaranam Author(s): Jineshvarsuri Publisher: Jinduttsuri Gyanbhandar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रान्तसमये विधिपूर्वकं अनशनं कृत्वा स्वर्ग गताः, इत्येवं श्रीजिनेश्वरसूरयः श्रीतीर्थकरोपदर्शितवसतिमार्गप्रर्वतकाः आसन् , एषां सूरीश्वराणां पाजन्म निर्वाणसंवत्सरो न ज्ञायते, किन्तु एषां पूज्यानां निर्मितग्रन्थेभ्यः १०८० संवत्सरसमयेधारामण्डले विहरत आसन् इति ग्रन्थात् अवबुध्यते । श्रीजिनेश्वरसूरितः सर्वत्र वसतिवासप्रवर्तितः खरतरगच्छोऽपि प्रसिद्धिं जातः अस्मिन् विषये बहूनि प्रमाणानि प्रसिद्धानि सन्ति तथाऽपि कानिचित् प्रासंगिकानि प्रदर्श्यन्ते वि० सं० ११२० तमे वर्षे श्रीअभयदेवसूरिः स्थानाङ्गसूत्रवृत्तिप्रान्ते-- प्रबुद्धप्रतिबंधप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्-प्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च | व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य इत्यादि। वि० सं० ११३६ वर्षे श्रीगुणचंद्रगणिविनिर्मितप्राकृतवीरचरित्रप्रशस्तिप्रान्ते भवजलेहि वीइसंभंत भविषसंताण तारणसमत्थो । बोहित्थोव्य महत्थो सिरिजिणेसरो पढमो ॥५१॥ गुरुपीराओ धवलाओ सुविहिया साहुसंती जाया । हिमवंताओ गंगुब्ध निग्गया सयलजणपुजा ॥ ५२ ॥ १ सुविहित इति खरतरमुनिगणमुख्यः इति उक्तम् । २ सुविहितसाधुसंततिः जाता इति वाक्येन खरतरसंततिप्रचलितं इति ध्वनितम्, शोभनं विहितं आचरितं येषां साधुसाध्वीश्रावकाणां ते सुविहिताः, अ. रा. को. । For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 115