Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 98
________________ ( ७६ ) गन्धवानित्यादी साध्याभाववत्पक्षतावच्छेदकावच्छिन्न पक्षरूपबावस्यवसत्त्वाद् बाधस्यानुमिति प्रतिबन्धः फलं, व्यभिचारस्वरूपासिद्ध योः परामर्श प्रतिबन्ध इत्येवं कार्य भेदाच्च । छलं च त्रिविधं मतमिति, वक्तृतात्पर्याविषयार्थकल्पनेन दूषणाभिधानं छलम्, वक्तृतात्पर्याविषयत्वं विशेष्ये विशेषणे संसर्ग वा, यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नवसङ्ख्या परत्वकल्पनयाऽसिद्ध यभिधानम्, प्रमेयं धर्मवादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध यभिधानम्. वह्निमान धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् । वाक् छल-सामान्यछलोपचारछलभेदेन त्रिविधं, नैयायिकरभिमतमित्यर्थः, तत्र शक्त्यैकार्थशाब्दबोधतात्पर्यकशब्दस्य शक्त्याऽर्थान्तरतात्पर्यकल्पनया दूषणाभिधानं वाक्छलम्, यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्युक्ते कुतोऽस्य नवसङ्घयकाः कम्बला इति, एवं गौविषाणोत्युक्ते कुतो गजस्य शृङ्गम्, श्वेतो धावतीति श्वेतरूपवदभि प्रायेणोक्ते श्वेतो न धावतीत्यभिधानमित्यादिकं ज्ञेयम् । सामान्यविशिष्टसम्भवदर्थाभिप्रायेगोक्तस्यातिसामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानं सामान्यच्छलम्, यथा ब्राह्मणोऽयं विद्याचरणसम्पन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरणसम्पद् साधयतीति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरणसम्पद बाल्ये व्यभिचारादिति । शक्तिलक्षणयोरेकतरवृत्त्याप्रयुक्त शब्दे तदपरवृत्या यः प्रतिषेधः स उपचारछलम्, यथा मञ्चाः क्रोशन्ति नीलो घट इत्यादी मञ्चस्था एव क्रोशन्ति न तु मञ्चाः, एवं घटस्य कथं

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174