Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १३० ) मयुक्तम् । तादात्म्यतदुत्पत्त्योरेव वास्तविकी संसर्गता, शब्दस्याई न समं तादात्म्यतदुत्पत्त्योरभावान्न कश्चित् सम्बन्धस्तदभावाञ्च नार्थबोधजनकत्वं शब्दस्य, तदुक्तंविकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यमी॥१॥ इति,
कल्पनापोढमभ्रान्तमिति लक्षणं, प्रत्यक्षमिति लक्ष्यम्, निर्विकल्पकमिति तत् स्पष्टीकरणम्, शब्दसंसर्गवती प्रतीतिः कल्पनातया रहितं, भ्रान्तिरहितं च ज्ञानं प्रत्यक्षं, तन्निविकल्पकम्, सविकल्पकन्तु न प्रत्यक्षं, तद् विषयतयाऽभिमतानां सामान्यावयव्यादीनामभावात्, तत् खण्डनयुक्तयोऽन्यत्रोपदर्शिताः ।
त्रिरूपेति, पक्षसत्व-सपक्षसत्व-विपक्षासत्त्वैतद्रूपत्रयवद्धतु. जनितं यत् साध्यस्य ज्ञानं तदनुमानभित्यर्थः, पर्वतोवह्निमान् धूमादित्यादौ धूमस्य पर्वतरूपपक्षवृत्तित्वमहानसरूपसपक्षवृत्तित्व-ह्रदरूपविपक्षावृत्तित्वैतद्रूपत्रययोगाद् वह्निरूपसाध्यव्याप्यत्वेन तज्ज्ञानात् पर्वतो वह्निमानितिज्ञानमनुमानम्, एतस्य विकल्पा. त्मकत्वात् साक्षात् स्वलक्षणरूपार्थसम्बन्धाभावेऽपि परम्परया स्वलक्षणरूपार्थसम्बन्धादेव प्रामाण्यमिति बोध्यम्, द्वावेवावयवाविति, यो यो धूमवान् स वह्निमान् यथा महानसमिति साधर्योदाहरणं, यो न वह्निमान् स न धूममान् यथा ह्रद इति वैधोदाहरणम्, धूमवाश्चायमित्युपनयः इत्येवमुदाहरणोपनयावेवावयवौ बौद्धसम्मती, नामजात्यादयोऽन्येपदार्था न बौद्धसम्मताः, जात्यादीनां

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174