Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १२६ ) कार्यान्तरम्प्रत्यसमर्थमिति तदानीं न द्वितीयं कार्य करोति द्वितीयक्षणे पुनस्तत्कार्यम्प्रतिसामर्थ्यात् तत् करोतीत्येवं क्रमेण कार्यकारित्वमुपपद्यतेऽक्षणिक इति, तदा सामर्थ्यासमयलक्षणविरुद्धधर्माध्यासात् तयो भंद एवेति यस्य प्रथमक्षणे यत्कार्यकारित्वं तदन्यस्यैव द्वितीयक्षणे तदन्यकार्यकारित्वमिति नैकस्य क्रमेण कार्यकारित्वसम्भवः, स्वयमसमर्थस्य न सहकार्यपेक्षणेनापि सामर्थ्यसम्भवः, समर्थस्य पुनः किं पुनः सहकार्यपेक्षयेति सहकारिसमवधानासमवधानाभ्यामपि न करणाकरणसंभवः, युगपत् सकलकार्यकारित्वे च यद्यत्कायं करणीयं तत् सर्व प्रथमक्षण एव संवृत्तमिति द्वितीयक्षणे कार्यकारित्वलक्षणं सत्त्वन्तस्य न स्यादित्यक्षणिकात् क्रमयोगपद्यलक्षणव्यापकनिवृत्त्या निवर्तत एवार्थक्रियाकारितालक्षणासत्ता क्षणिक एवावतिष्ठते, नन्वेवमकुरम्प्रति बीजत्वेन कारणत्वं न स्यात् बीजत्वस्य कुशूलस्थाबीजेऽपिसत्तया ततोऽङ्कुकार्यानुत्पादादित्यत आह कुर्वद्रूपत्वेति अङ्कुरम्प्रति अकुरकुवंद्रूपत्वत्वेनैव बीजस्य कारणत्वं सहकारि मध्यमध्यासोनमेवबोजमकुरकुर्वद्रूपमिति ततोऽकुरमुत्पद्यते, नान्यधर्मतः बीजवादिधर्मेण बीजादीनां नाङकुरादिकं प्रतिजनकत्वं, तेन कुशूलस्थ बीजादितोऽङ्कुरायभावेऽपि न क्षतिः । प्रत्यक्षमिति, एतन्मते प्रत्यक्षमनुमानश्चेत्येवं प्रमाणं, द्वधा द्विप्रकारकम्, अपरमुपमानादिकं न प्रमाणं, उपमानस्य शब्दार्थयो शक्तिरूपसम्बन्धग्राहकत्वेनैव प्रामाण्यमुपेयते, न चेच्छाविशेषरूपायाः शक्तेः संसर्गतासम्भव, इति तद् ग्राहकतयोपमानप्रमाणकल्पन

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174