Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
( १३४ ) समन्ताद् वनवासीति, सामन्तभद्रसूरिपः । स्वच्छं गच्छं वितेने च, तदनु भद्रकृद् भुवि ॥६॥ सर्वदेवाख्यसूरीशः, सर्वश्रेयस्करं कलम् । वटगच्छं पवित्रं च, विशालं तदनु व्यधात् ॥७॥
श्रीमेदपाटभूपाप्त-महातपापदै भुवि । श्रीजगच्चन्द्रसूरीशै-स्तपागच्छ-प्रवत्तितः ॥६॥
परम्परागते स्वच्छ, तपागच्छेऽत्र भूतले। यवनाकबरे लेश-प्रतिबोधकरा वराः ॥६॥ धीर-वीरत्व-हीरत्व-गभीरत्वादिभूषिताः । जगद्गुरुवराः ख्याताः, सञ्जाता हीरसूरयः ॥१०॥
प्रतापि-सेनसूरीशैर्दक्षः . श्रीदेवसूरिभिः । वादीसिंहकल्पैः श्री-सिंहसूरीश्वरैः क्रमात् ॥११॥
उल्लासिते तपोगच्छे, वृद्धिविजयकारकाः । श्रीवृद्धिविजया जाता, वृद्धिचन्द्राख्यख्यातिकाः ॥१२॥
तेषाश्च शान्तमूर्तीनां, पादाब्ज-मधुपोपमाः। सर्वशासनसम्राजो, विभ्राजो ज्ञानरश्मिभिः ॥१३॥ सत्तीर्थोद्धारकाः प्रौढाः, सर्वतन्त्र-स्वतन्त्रकाः । सूरिपञ्चकप्रस्थान-पञ्चका राधकाः किल ॥१४॥

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174