Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 137
________________ ( ११८ ) हितचेतन्यलक्षणत्रयस्य च प्राग्वदेकीभूतस्य त्वंपदवाच्यार्थत्वात्, एतदुपहिताधारानुपहित प्रत्यगानन्द तुरीय चैतन्यस्य च तस्वं पदलक्ष्यार्थत्वात्, अत्र तत्त्वमसीति वाकयं सम्बन्धत्रयेणाखण्डाथं बोधयति, सम्बन्धत्रयं नामपदयोः समानाधिकरण्यं, पदार्थयो विशेषणविशेष्यभावः, पदार्थ प्रत्यगात्मलक्षणयो लक्ष्यलक्षणभावश्च तदुक्तं - " सामानाधिकरण्यं च, विशेषण विशेष्यता । लक्ष्यलक्षणसम्बन्धः, पदार्थ प्रत्यगात्मनाम् ॥ १॥ इति, तत्र समानाधिकरण्यसम्बन्धस्तावद्यथा-सोयं देवदत्त इति वाकये तत् कालविशिष्टदेवदत्त वाचकशब्दस्यैतत् कालविशिष्ट वाचकायं शब्दस्य चैकस्मिन् पिण्डे तात्पर्य सम्बन्धः, तथा तत्त्वमसीतिवाकये परोक्षत्वादिविशिष्ट चैतन्य वाचक तत्पदस्यापरोक्षत्वादिविशिष्टचैतन्य वाचकत्वपदस्य चंकस्मिन्नर्थे तात्पर्यसम्बन्धः, विशेषणविशेष्यभावस्तु यथा तत्र स शब्दार्थं तत्काल विशिष्ट देवदत्तस्यायं पदार्थैतत्कालविशिष्टदेवदत्तस्य चान्योग्यभेदव्यावर्त्तकतया, तथाऽत्रापि वाकये तत् पदार्थपरोक्षत्वादिविशिष्ट चैतन्यस्यत्वंपदार्थापरोक्षत्वादिविशिष्ट चैतन्यस्य चान्योन्यभेदव्यावत्तंकतया द्रष्टव्यः । लक्ष्यलक्षणभावस्तु यथा तत्र स शब्दाय शब्दयोस्तदर्थयोर्वाविरुद्धतत् कालेतत् कालविशिष्ट परित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावस्तथाऽत्रापि तत्वम्पदयोस्तदर्थयो र्वा परोक्षत्वापरोक्षत्वाविशिष्टत्व परित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः, इयमेव भागलक्षणेत्युच्यते, अस्मिन् वाकये नीलमुत्पलमिति वाक्य इव वाक्यार्थो न सङ्गच्छते, तत्र गुण

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174