________________
( ११८ )
हितचेतन्यलक्षणत्रयस्य च प्राग्वदेकीभूतस्य त्वंपदवाच्यार्थत्वात्, एतदुपहिताधारानुपहित प्रत्यगानन्द तुरीय चैतन्यस्य च तस्वं पदलक्ष्यार्थत्वात्, अत्र तत्त्वमसीति वाकयं सम्बन्धत्रयेणाखण्डाथं बोधयति, सम्बन्धत्रयं नामपदयोः समानाधिकरण्यं, पदार्थयो विशेषणविशेष्यभावः, पदार्थ प्रत्यगात्मलक्षणयो लक्ष्यलक्षणभावश्च तदुक्तं - " सामानाधिकरण्यं च, विशेषण विशेष्यता ।
लक्ष्यलक्षणसम्बन्धः, पदार्थ प्रत्यगात्मनाम् ॥ १॥ इति, तत्र समानाधिकरण्यसम्बन्धस्तावद्यथा-सोयं देवदत्त इति वाकये तत् कालविशिष्टदेवदत्त वाचकशब्दस्यैतत् कालविशिष्ट वाचकायं शब्दस्य चैकस्मिन् पिण्डे तात्पर्य सम्बन्धः, तथा तत्त्वमसीतिवाकये परोक्षत्वादिविशिष्ट चैतन्य वाचक तत्पदस्यापरोक्षत्वादिविशिष्टचैतन्य वाचकत्वपदस्य चंकस्मिन्नर्थे तात्पर्यसम्बन्धः, विशेषणविशेष्यभावस्तु यथा तत्र स शब्दार्थं तत्काल विशिष्ट देवदत्तस्यायं पदार्थैतत्कालविशिष्टदेवदत्तस्य चान्योग्यभेदव्यावर्त्तकतया, तथाऽत्रापि वाकये तत् पदार्थपरोक्षत्वादिविशिष्ट चैतन्यस्यत्वंपदार्थापरोक्षत्वादिविशिष्ट चैतन्यस्य चान्योन्यभेदव्यावत्तंकतया द्रष्टव्यः । लक्ष्यलक्षणभावस्तु यथा तत्र स शब्दाय शब्दयोस्तदर्थयोर्वाविरुद्धतत् कालेतत् कालविशिष्ट परित्यागेनाविरुद्धदेवदत्तेन सह लक्ष्यलक्षणभावस्तथाऽत्रापि तत्वम्पदयोस्तदर्थयो र्वा परोक्षत्वापरोक्षत्वाविशिष्टत्व परित्यागेनाविरुद्धचैतन्येन सह लक्ष्यलक्षणभावः, इयमेव भागलक्षणेत्युच्यते, अस्मिन् वाकये नीलमुत्पलमिति वाक्य इव वाक्यार्थो न सङ्गच्छते, तत्र गुण