________________
( ११७ ) तेन वागादीन्द्रियपञ्चकेन क्रमाद्वचनादानगमनविसर्गानन्दांश्चन्द्राच्युतचतुर्मुखशङ्करः क्रमानियन्त्रितेन मनोबुद्धचहङ्कारचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात् सङ्कल्पनिश्चयाहङ्कार्यरचित्तांश्च स्थूलविषयाननुभवतः, “ जागरितस्थानोबहिः प्राज्ञ इत्यादिश्रुतेः, अत्राप्यनयोः स्थूलव्यष्टिसमष्टयोस्तदुपहितयो विश्ववैश्वानरयोश्च पूर्ववदभेदः, एवं पञ्चीकृतेभ्यो भूतेभ्यः स्थूलप्रपञ्चोत्पत्तिः । एषां स्थूलसूक्ष्मकारणप्रपञ्चानामपि समष्टिरेको महान प्रपञ्चो भवति, एतदुपहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमपि पूर्ववदेकमेव, अयमर्थाध्यारोपः, एवं प्रत्यगात्मनि चार्वाकाद्यभिमतः स्थूलशरीराद्यध्यारोपोऽपि द्रष्टव्यः । अथापवादो नाम रज्जुविवर्तसर्वस्य रज्जुमात्रत्ववद्वस्तुविवर्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम्, तथाहि भोगायतनचतुर्विधशरीर-भोग्यरूपान्नादि-तदाश्रयचतुर्दशभुवन-तदाश्रयब्रह्माण्डादि सर्व कारणीभूतपश्ची कृतभूतमात्रं भवति, शब्दादिविषयसहितानिपञ्चीकृतभूतजातानि-सूक्ष्मशरीरजातं चैतत् सर्व कारणरूपापश्चीकृतभूतमात्रं भवति, एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतान्युत्पत्तिव्युत्क्रमेणेतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवति, एतदज्ञानमज्ञानोपहितचैतन्यं चेश्वरादिकमेतदाधारभूतानुपहितचैतन्यतुरीयब्रह्मसमापन्न भवति, आभ्यामध्यारोपापवादाभ्यां तत्त्वं पदार्थावपि शोधितौ स्तः, अज्ञानादिसमष्टितदुपहितसर्वज्ञत्वादिविशिष्टचैतन्यतदनुपहितचंतन्यलक्षणत्रयस्य तप्तावः पिण्डवदेकत्वेनावभासमानस्य तत् पदवाच्यार्थत्वात्, अज्ञानादिव्यष्टितदुपहितासर्वज्ञत्वादिविशिष्टतदनुप