________________
( ११६ ) लयस्थानम्, एतौ सूत्रात्मतेजसाविदानी मनोवृत्तिभिः सूक्षमविषयाननुभवतः, “प्रविविक्तभुक् तेजसः" इति श्रुतेः, अत्रापि व्यष्टिसमष्टयोस्तदुपहितसूत्रात्मतै जसयो व वृक्षवत्तदवच्छिन्नाकाशव. चाभेदः, एवं सूक्ष्मशरीरोत्पत्तिः,स्थूलभूतानि च पञ्चीकृतानि, पञ्च. करणन्त्वाकाशादिपञ्चकमेकैकं द्विधाविभज्यसमं तेषु दशसु भागेषु प्राथमिकान् पञ्चभागान् प्रत्येक चतुर्था समं विभज्य तेषां चतुर्णा चतुर्णा भागानां स्वस्वद्वितीयभागपरित्यागेन भागान्तरेषु संयो. जनम्, त्रिवृत्करणश्रुतेः पञ्चीकरणस्याप्युपलक्षणत्वान्नास्या प्रामाण्यम्, पञ्चानां पश्चात्मकत्वे तुल्येऽपि स्वार्धभागेतराष्टमभागाभ्यां वैशिष्टयात् तद्व्यपदेशः इत्याकाशादीनां नियतव्यपदेशव्यवस्था। तदानीमाकाशे शब्दोऽभिव्यज्यते, वायौ शब्दस्पर्शी, अग्नौ शब्दस्पर्शरूपाणि, अप्सु शब्दस्पर्शरूपरसाः, पृथिव्यां शब्दस्पर्शरूपरसगांधाः, एतेभ्यः पञ्चीकृतेश्यः चतुर्दशानां लोकानां तदन्तर्गतानां स्थूलशरीराणाश्नोत्पत्तिः, शरीराणि मनुष्यपक्षियूकावृक्षादीनां जरायुजाण्डजस्वेदजोद्भिजाख्यानि, अत्रापि चतुर्विधस्थूलशरीरमेकानेकबुद्धिविषयतया समष्टिर्यष्टिच, एतत् समष्टयुपहितं चैतन्यं वैश्वानर इति विराडिति चोच्यते, अस्यैषा स्थूलशरीरमन्नविकारत्वादन्नमयकोशः, स्थूलभोगायतनत्वान्जागरश्व, एतद्वयष्टयुपहितं चैतन्यं विश्वः, अम्याप्येषा स्थूलशरीरमन्नविकारत्वादिहेतोरन्नमयकोशो जाग्रदित्युच्यते, तदेतौ विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन क्रमाच्छब्दस्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः क्रमान्नियन्त्रि