________________
( ११५ ) बुद्धिनिश्चयात्मिकान्त करणवृत्तिः, सङ्कल्पविकल्पात्मिकान्त करणवृत्ति मनः, एतयोरेव चित्ताहङ्कारयोरन्तर्भावः, एते च गगनादिगत सात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यते । एषां प्रकाशात्मकत्वात् सात्विकांशकायंत्वम्, इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता सती विज्ञानमयकोशो भवति, अयं कर्तृत्वभोक्तृत्वाभिमानित्वेन लोकद्वयगामी व्यावहारिको जीव इत्युच्यते, मनस्तुकर्मेन्द्रियस्सह मनोमयकोशः।
कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि, एतान्याकाशादीनां रजोशेभ्यो व्यस्तेभ्यः पृथक् पृथगुत्पद्यन्ते, वायवः प्राणापानोदानसमानव्यानाः, एते चाकाशादिगतरजोंशेभ्यो मिलितेम्य उत्पद्यन्ते, इदं प्राणादिपञ्चक कर्मेन्द्रियसहितं प्राणमयकोश उच्यते, अस्य क्रियात्मकत्वेन रजोशकार्यम्, एषु कोशेषु विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः, मनोमय इच्छाशक्तिमान् कर्तृरूपः, प्राणमयः क्रियाशक्तिमान् कार्यरूपः, एतत् कोशत्रयं मिलितं सूक्ष्मशरीरमुच्यते, अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवजलाशयवद् वा समष्टिः, अनेकबुद्धिविषयतया वृक्षवज्जलवद् वाव्यष्टिः, समष्टयुपहितं चैतन्यं सूत्रात्माहिरण्यगर्भः प्राण इति चोच्यते, सर्वत्रानुस्यूतत्वाज्जानक्रियाशक्तिमदुपहितत्वाचास्यैषा समष्टिः, स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात् स्वप्नोऽत एव स्थूलप्रपश्चलस्थानम्, एतद् द्वयष्टयुपहितं चैतन्यं तेजसः, तेजोमयान्तः करणोपहितत्वात्, अस्पापीयं व्यष्टिः, स्थूलशरीरापेक्षया सूक्ष्मत्वादिहेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात् स्वप्नः स्थूलशरीर