________________
( ७६ ) गन्धवानित्यादी साध्याभाववत्पक्षतावच्छेदकावच्छिन्न पक्षरूपबावस्यवसत्त्वाद् बाधस्यानुमिति प्रतिबन्धः फलं, व्यभिचारस्वरूपासिद्ध योः परामर्श प्रतिबन्ध इत्येवं कार्य भेदाच्च ।
छलं च त्रिविधं मतमिति, वक्तृतात्पर्याविषयार्थकल्पनेन दूषणाभिधानं छलम्, वक्तृतात्पर्याविषयत्वं विशेष्ये विशेषणे संसर्ग वा, यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नवसङ्ख्या परत्वकल्पनयाऽसिद्ध यभिधानम्, प्रमेयं धर्मवादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध यभिधानम्. वह्निमान धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम् । वाक् छल-सामान्यछलोपचारछलभेदेन त्रिविधं, नैयायिकरभिमतमित्यर्थः, तत्र शक्त्यैकार्थशाब्दबोधतात्पर्यकशब्दस्य शक्त्याऽर्थान्तरतात्पर्यकल्पनया दूषणाभिधानं वाक्छलम्, यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्युक्ते कुतोऽस्य नवसङ्घयकाः कम्बला इति, एवं गौविषाणोत्युक्ते कुतो गजस्य शृङ्गम्, श्वेतो धावतीति श्वेतरूपवदभि प्रायेणोक्ते श्वेतो न धावतीत्यभिधानमित्यादिकं ज्ञेयम् । सामान्यविशिष्टसम्भवदर्थाभिप्रायेगोक्तस्यातिसामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानं सामान्यच्छलम्, यथा ब्राह्मणोऽयं विद्याचरणसम्पन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरणसम्पद् साधयतीति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरणसम्पद बाल्ये व्यभिचारादिति ।
शक्तिलक्षणयोरेकतरवृत्त्याप्रयुक्त शब्दे तदपरवृत्या यः प्रतिषेधः स उपचारछलम्, यथा मञ्चाः क्रोशन्ति नीलो घट इत्यादी मञ्चस्था एव क्रोशन्ति न तु मञ्चाः, एवं घटस्य कथं