SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ( ७८ ) त्रिविधः, . आश्रयासिद्धि-स्वरूपासिद्धि-व्याप्यत्वासिद्धयश्च दोषाः, तत्र पक्षतावच्छेदकाभाववान् पक्ष आश्रयासिद्धिः, यथा काञ्चनम. यपर्वतो वह्निमान् धूमादित्यादौ काश्चनमयत्वाभाववान पर्वतः, अयश्चानुमितिपरामर्शपोः प्रतिबन्धकः । हेतुतावच्छेदकावच्छिन्नाभाववान् पक्षः स्वरूपासिद्धिः, यथाह्रदो द्रव्यं धूमादित्यादौ, अयं च परामर्शप्रतिबन्धकः । साध्ये साध्यतावच्छेदकाभावः साधने साधनतावच्छेदकाभावश्च व्याप्यत्वासिद्धिः, तत्र प्रथमः पर्वतः काञ्चनमयह्निमानित्यादौ काञ्चनमयत्वाभाववान् वह्निः, अयञ्चानुमिति परामर्शयोः प्रतिबन्धकः, द्वितीयश्च पर्वतो वह्निमान् काञ्चनमयधूमादित्यादौ काञ्चनमयत्वाभावान् धूमः, अयञ्च परामर्श प्रतिबन्धकः। साधनतावच्छेदके व्याप्यतानवच्छेदकत्वमपि व्याप्यत्वासिद्धिः, यथा पर्वतो वह्निमान् नीलधूमादित्यादौ नीलधूमत्वं गुरुतया न साध्यसम्बन्धितावच्छेदकमिति, आश्रयासिद्धयाद्यन्यतमत्वञ्चासिद्धिसामान्यलक्षणमिति बोध्यम् । "कालात्ययापदिष्टः कालातीतः" इति सूत्रलक्षितो बाधितः, कालात्यये साधनकालात्यये पक्षे साध्याभाव प्रमाकाले इति यावत् अपदिष्टः प्रयुक्तो हेतुः कालातीत इत्युच्यते, कालातीत एव बाधित इति कथ्यते, साध्याभाववान् पक्षो बाधः, यथा वह्निरनुष्णः कृतकत्वादित्यादौ, 'न च बाधे पक्षे हेतुसत्त्वे व्यभिचारः, पक्ष हेवभावे स्वरूपासिद्धिरितिव्यभिचारस्वरूपा सिद्धयन्तरस्यैव दो मिति वाध्यं तदप्रतिसन्धानेन बाधस्य दोषत्वावश्यकत्वात, उपधेयसङ्करेऽप्युपारसकरात्, उत्पत्तिकालावच्छिन्नो घटो
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy