________________
( ७७ ) नव्यमते साध्यवदवृत्तित्वमसाधारण्यं तस्य साध्यनिश्चयाघटितत्वेन नित्यदोषत्वं, न तु प्राचीनमत इवानित्यदोषत्वम्, अनुपसंहारी च केवलान्वयि साध्यकः, तस्यात्यन्ताभावाप्रतियोगिसाध्यकत्वरूपस्य ज्ञानाद् व्यतिरेकव्याप्तिग्रहप्रतिबन्धो दूषकताबीजमिति । साध्याभावव्याप्तो हेतुविरुद्धः, यथा वह्निमान् ह्रदत्वा. दित्यादौ, एतस्य साध्याभावानुमिति सामग्रीत्वेन साध्यानुमिति प्रतिबन्धो दूषकताबीजम्, पक्षर्मिकहेतुमत्ता निश्चयविशिष्टहेतुधर्मिकसाध्याभावनिश्चयत्वेन पक्षमि कसाध्यवत्ताबुद्धिप्रति प्रतिबन्धकत्वम् । न च सत्प्रतिपक्षाविशेषः, तत्र हेत्वन्तरं साध्याभावसाधकम् इह तु हेतुरेव साध्याभावसाधकः साध्यसाधकत्वेन स्वयोपन्यस्त इत्यशक्ति विशेषोन्नायकत्वेन विशेषादिति ।
सत्प्रतिपक्षस्तु साध्याभावव्याप्यवान् पक्षः, एतस्यानुमितिप्रतिबन्धो दूषकताबीजम्, यथा ह्रदो वह्निमान धूमादित्यादौ वह न्यभावव्याप्यजलवान् ह्रदो दोषः, एकज्ञानविषयत्वसम्बन्धेन तद्वत्त्वाद् धूमस्य दुष्टत्वमिति नव्यमतम्, प्राचीनमते तु स्वसाध्यविरुद्धसाध्याभावव्याप्यप्रतिहेतुत्तापरामर्शकालीन साध्यव्याप्यवत्तापरामर्श विषयः प्रकृत हेतुः सत् प्रतिपक्ष इति, एतन्मते परस्परप्रतिबन्धादुभयानुमितिप्रतिबन्धः फलम् । ___ " साध्याविशिष्टः साध्यत्वात्साध्यसमः" इति सूत्रलक्षितोऽसिद्धः, साध्येन वह्निनाऽविशिष्टः साध्यत्वात् तथा साध्यं साधनीयं तथा हेतुरपि चेत्साध्यसमइत्युच्यते, अत एवासिद्ध इति व्यवह्रियते इति सूत्रार्थः, अयञ्चाश्रयासिद्ध-स्वरूपासिद्ध-व्याप्त्वासिद्धभेदात्