________________
। ७६ ) मितिपर्यवसितम्, दोषस्वरूपा च हेत्वाभासा व्यभिचार-विरोधा. सिद्धि सत्प्रतिपक्षबाधभेदेन पञ्चप्रकाराः दुष्टहेतवोऽपि स व्यभिभिचार-विरुद्धासिद्धसत्प्रतिपक्षबाधितभेदेन पञ्चप्रकाराज्ञेयाः, 'सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातोतकालाहेत्वाभासाः' इति सूत्रेण दुष्टहेतूनामेव विभजनम् अत्र प्रकरणसमः सत्प्रतिपक्षः, साध्य समोऽसिद्धः, अतीतकालो बाधित इति । तत्र व्यभिचारोऽनेकान्तः, अनैकान्तिकः सव्यभिचारः, व्यभिचारस्य व्याप्तिज्ञानप्रतिबन्धकज्ञानविषयत्वं लक्षणम्, साधारण्यासाधारण्यानुपसंहारभेदेन व्यभिचारस्यत्रैविध्यात् सव्यभिचारोऽपि साधारणासाधाणानुपसंहारिभेदेन त्रिविधः, तत्र सपक्षविपक्षवृत्तिः साधारणानेकान्तिकः, सपक्षो निश्चितसाध्यवान्, विरक्षो निश्चितसाध्याभाववान्, यथा शब्दो नित्यो निःस्पर्शत्वादित्यादौ निःस्पर्शत्वहेतुः, तस्य सपक्षे आकाशादौ विपक्षे च रूपादौ वृत्तः, विरुद्धातिव्याप्तिवारणायैवात्र सपक्षवृत्तित्वं निवेशितं, साध्यवदन्यवृत्तित्वं साध्याभावववृत्तित्वमेव वा व्याप्तिज्ञानप्रतिबन्धकज्ञानविषयत्वाद् व्यभिचारः, वस्तुतोविरुद्धगतत्वेऽपि न क्षतिः उपधेयसङ्करेऽप्युपाधेरसाङ्कर्यात्, सपक्षविपक्षव्यावृत्तोऽसाधारणानकान्तिकः यथा शद्वो नित्यः शब्दत्वादित्यादौ शब्दत्वहेतुः । असाधारण्यस्य साध्यसमानाधिकरण्यविरोधित्वेन साध्यसामानाधिकरण्यघटितव्याप्तिज्ञानप्रतिबन्धकज्ञानविषयत्वे न दूषणत्वम् । अनुपसंहारी च केवलान्वयिधर्मावच्छिन्नपक्षकः, यथा सर्व नित्यं प्रमेयत्वादित्यादि, अत्र च पक्षतातिरिक्तसाध्यसहचारग्रहस्थलाभावात् पक्षे च साध्यसन्देहाद व्याप्तिग्रहो न भवतीति,