________________
( ७५ ) विशेषेऽप्यर्थदोषत्वेनाप्रधानत्वाच्चरममनुसन्धानमिति वृत्तिकृतः । 'स प्रतिपक्षस्थापनाहीनावितण्डा' इति सूत्रलक्षिता वितण्डा । अत्र तच्छब्देन जल्पंदेशो विजिगीषुकथेति परामृष्यते न जल्पस्तस्य स्थापनाद्वयवत्त्वे न प्रतिपक्षस्थापनाहीनात्वासम्भवात्, तथा च प्रतिपक्षस्थापनाहोनाविजिगीषुकथावितण्डेति पर्यवसितम्, स्वपक्षसाधनाभावेऽपि परपक्षखण्डने न जयस्यैवोद्देश्यत्वादत्र प्रवृत्त्युपपत्तिः, अथवा परपक्षखण्डनेनैव स्वपक्षसिद्ध देवसिद्धिरिति तस्य साधनाभावेऽपि न प्रवृत्त्यनुपपत्तिरिति ।
हेत्वाभासाः पञ्च ज्ञेया इति, पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वाबाधितत्वासत्प्रतिपक्षवैतत्पश्चरूपोपपन्नो हेतुर्गमको भवति, ये च पश्चरूयोपपन्नो न भवन्ति अथापि हेतुवदासासन्ते ते हेत्वाभासाः अर्थात् पञ्चरूपोपन्नत्वाभावेसति तद्रूपेण भासमानत्वं हेत्वाभासत्वं दुष्टहेतुत्वमिति, हेतुवदाभासन्ते यैस्ते हेत्वाभासा इति व्युत्पत्त्या दोषा अपिहेत्वाभासाः, तेषांलक्षणन्तु अनाहार्याप्रामाण्यज्ञानानस्कन्दितनिश्चयवृत्तित्वविशिष्ट यद्रूपाववच्छिन्नविषयताव्यापिका भवति प्रकृतानुमितिस्तत् करणान्यतरप्रतिबन्धकता, प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकावच्छिन्न प्रकारताकत्वे सति प्रकृतसाध्यतावच्छेदकावच्छिन्नसाध्यनिरूपितव्याप्तिविशिष्ट प्रकृतहेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपित प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकानुमितित्व व्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकता वा, तद्रूपवत्त्वं दोषत्वम्, स्वज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन तद्रूपविशिष्टवत्त्वदुष्टत्व