________________
( 50 )
नीलरूपाभेदः, एवम् अहं नित्य इति शक्तया प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोऽप्युपचारछलम्, वाद्यभिप्रेतार्थस्यादूणणेन छलस्यासदुत्तरत्वम् । न च श्लिष्टलाक्षणिक प्रयोगाद् वादिन एवापराध इति वाच्यं तत् तदर्थबोधकतया प्रसिद्धस्य शब्दस्य प्रयोगे वादिनोऽनपराधात्, अन्यथा पर्वतोर्वाह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादिदूषणेनानुमाद्युच्छेदः स्यादिति । चतुविंशतिभेदाः स्युर्जातय इति ।
" साधम्यवैधम्र्म्याभ्यां प्रत्यवस्थानं जाति: इति सूत्रोक्तं लक्षणं साधम्यमात्रेण वैधर्म्य मात्रेण वा दुषणाभिधानेऽव्याप्तमिति छलादिभिन्नदूषणासमर्थमुत्तरं स्वव्याघातकमुत्तरं वा जातिरितिलक्षण एव सूत्रस्य तात्पर्यम् व्यक्तयानेकत्वाज्जातय इति बहुवचनम्, "साधर्म्य - वैधम्र्योत्कर्षापकर्षवर्ण्यावयं विकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरण हेत्वर्थापत्त्याविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यं समाः " इति सूत्र दर्शित चतुविशतिप्रकारा जातयः स्युरित्यर्थः, सूत्रेऽन्तस्थितस माशब्देन सहप्रत्येकंसाधर्म्यादिशब्दानामन्वयात् साधर्म्य समावैधर्म्य समेत्यादिरीत्याचतुर्विंशतिसंख्यका जातयो ज्ञातव्याः, तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमा, यथा अनित्यः शब्दः कृतकत्वाद घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानं नित्यः शब्दो निरवयवत्वादाकाशवदिति, विशेष हेत्वभावश्चात्र निमित्तमेवमग्रेऽपि ।
"
वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा, अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्रैव प्रयोगे स एव हेतु वैधर्म्येण प्रयुज्यते नित्यः शब्दो