SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ( ८१ ) निरवयवत्वात्, अनित्यं हि सावयत्रं दृष्टं घटादि, उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती। तत्रैव प्रयोगे यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवेदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकःसन्न श्रावणो दृष्ट एवं शब्दोऽपि स्यादिति श्रावणधर्ममपकर्षति । वर्ध्यावाभ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती। वर्ष्याव?साध्यदृष्टान्तधर्मोविपर्यस्यन् वावर्ण्यसमे प्रयुङ्क्ते, 'यथाविधः कृतकत्वादिः शब्दधर्मो न तादृग् घट धर्मः, याहग्घट धर्मो न ताहग् शब्दधर्म इति, साध्यदृष्टान्तधर्मी तुल्यौ कर्त्तव्यौ, अत्र तु विपर्यासः, घटस्य ह्यन्यादृशं कुम्भकारादिजन्यं कृतकत्वं,शब्दस्य हि ताल्वोष्ठादिव्यापारजन्यमिति । धर्मान्तरविकल्पनेन प्रत्यवस्थानं विकल्पसमाजातिः, यथा कृतकं किञ्चिदनित्यं भविष्यति घटादि, किश्चिन्नित्यं शब्दादीति, साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमाजातिः, यथा कृतको यदि यथा घटस्तथा शब्दः प्राप्तः तहि यथा शब्द स्तथा घट इति शब्दश्च साध्य इति घटोऽपि साध्यो भवेत्, ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात्, न चेदेवं, तथापि वैलक्षण्यात् सुतरामदृष्टान्त इति । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती । यथा यदेतत्कृतकत्वं त्वया साधनमुपन्यस्तं तत् किं प्राप्य साधयति अप्राप्य वा, प्राप्य चेत् द्वयो विद्यमानयो रेव प्राप्तिर्भवति न सदसतोरिति द्वयोश्च सत्त्वात किं कस्य साध्यं साधनं वा, अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति । अतिप्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमाजातिः, यथा
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy