________________
( ८२ ) यद्यनित्यत्वे कृतकत्वं साधनं, कृतकत्वे इदानों कि साधनं, तत् साधने किं साधनमिति । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमाजातिः, यथाऽनित्यः शब्दःप्रयत्नानन्तरीयकत्वाद् घटवदित्युक्ते जातिवाद्याह
यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्टः एवमाकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टम्, कूपखननप्रयत्नानन्तरमुपलम्भादिति, न चेदमनकान्तिकत्वोद्भावनम्, भङ्ग यन्तरेण प्रत्यवस्थानादिति । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमाजातिः यथा अनुत्पन्न शब्दाख्ये मिणि कृतकत्वं धर्मः क्व वर्तते, तदेवं हेत्वाभावादसिद्धिरनित्यत्वस्येति । साधर्म्यसमा वैधर्म्यसमा वा या जातिः पूर्व मुदाहृता सैव संशयेनोपसंह्रियमाणा संशयसमा जाति भवति, यथा किंघटसाधर्म्यात् कृतकत्वादनित्यः शब्दः उत तद्वैधादाकाशसाधान्निरवयवत्वान्नित्य इति । द्वितीयपक्षोत्थापनबुद्धया प्रयुज्य माना सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति, तत्रैवानित्यः शब्दः कृतकत्वादिति प्रयोगे नित्यः शब्दः श्रावणत्वा. च्छब्दत्ववदिति । त्रैकाल्यानुपपत्त्या हेतोः प्रत्यवस्थानमहेतुसमाजातिः, यथा हेतुः साधनं तत् साध्यात् पूर्वपश्चात् सहवाभवेत्, यदि पूर्वम्, असति साध्ये तत् कस्य साधनम्, अथ पश्चात् साधनम्, पूर्व तहि साध्यम्, तस्मिंश्च पूर्वसिद्ध किं साधनेन, अथ युगपत् साध्यसाधने, तहि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभाव एव न भवेदिति । अर्थापत्त्या प्रत्यवस्थानमापत्तिसमाजातिः, यद्यनित्यसाधात् कृतकत्वादनित्यः शब्दोऽर्थादापद्यते नित्य