________________
( ८३ ) साधान्नित्य इति, अस्ति चास्य नित्येनाकाशादिना साधम्य निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति अविशेषापादनेन प्रत्यवस्थानमविशेषसमाजातिः, यथा यदिशब्दघटयोरेको धर्मः कृतकत्वमिष्यते, तहि समानधर्मयोगात् तयो रविशेषे तद् तदेव सर्वपदार्थानामविशेषः प्रसज्यत इति । उपपत्या प्रत्यवस्थानमुपपत्तिसमाजातिः, यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवति, पक्षद्वयोपपत्त्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् ।
उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमाजातिः, यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रत्यवतिष्ठते- न खलु प्रयत्नानन्तरोयकत्वमनित्यत्वे साधनम्, साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते, उपलभ्यते च प्रयत्नानन्तरीयकत्वं विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद् वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमाजातिः, तथा तत्रैव प्रयत्नालन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी
न प्रयत्नकार्यः शब्दः, प्रागुच्चारणादस्त्येवासौ आवरणयोगात् तु नोपलभ्यते, आवरणानुपलम्मेऽप्यनुपलम्भान्नास्त्येव शब्द इति चेत्, न, आवरणानुपलम्भेऽप्यनुपलम्भ सद्भावात्, आवरणानुपलब्धेश्चानुपलम्भादभावः, तदभावे चावरणोपलब्धे र्भावो भवति, ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शद्वस्य प्रागुवारणादग्रहणमिति प्रयत्नकार्यत्वाभावान्नित्यः शब्द इति ।