Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 133
________________ ( ११४ ) एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षावच्छिन्ना काशपोरिवाभेदः, एष सर्वेश्वर इति श्रुतेः, अनयोरज्ञानतदुपहितचैतन्ययोराधारभूतमनुपहितचैतन्यं तुरीयम्, 'शिवमद्वैतं चतुर्थं मन्यन्ते' इति श्रुतेः, इदमेव तुरीयं शुद्धं चैतन्यमज्ञानादितदुपहितचैतन्याभ्यामविविक्तं सत् 'सवं ब्रह्मैव' इत्यादेः 'तत्त्वमसि' इत्यादे र्वा महावाक्यस्य वाच्यं, विविक्तं सल्लक्ष्यमिति चोच्यते, इदञ्चाज्ञानमावरण विक्षेपशक्तिद्वयवत्, तत्रावरणशक्तिराच्छादनसामर्थ्यम्, अनयाऽऽवृतस्यात्मनः कर्त्तृत्वादिकं रज्जोस्सर्पत्वमिव, विक्षेपशक्तिश्च यथा रज्जवज्ञानं स्वावृतरज्जौ सर्पादिकमुत्पादयति, एवमज्ञानमपि स्वावृतात्मनि गगनादिप्रपञ्चमुत्पादयति येन तादृशसामर्थ्यम्, तदुक्तंम् 'विक्षेपशक्तिलिङ्गादि ब्रह्माण्डान्तं जगत्सृजेत्' इति, शक्तिद्वयवज्ञानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतया चोपादानं भवति, ततस्तमः प्रधानशक्तिमदज्ञानोपहितचैतन्यादाकाशम् श्राकाशाद् वायुः, वायोरग्निः, अग्ने रापः, अद्द्भ्यः पृथिवी चोत्पद्यते, " एतस्मादाकाशः सम्भूतः" इत्यादिश्रुतेः, एतेषु जाड्याधिकयदर्शनादेतत्कारणस्य तमः प्रावान्यम्, सत्त्वरजस्तमांस्थपि कारणगुणक्रमेणैतेष्वाकाशादिषुत्पद्यन्ते, एतान्येव पञ्चभूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यते, एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते, सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि, अवयवाज्ञानेन्द्रियपञ्चकं बुद्धिमनसो कर्म न्द्रियपञ्चकं वायुपञ्चकञ्चति, श्रोत्रत्वक्चक्षुजिह्वाघ्राणानि ज्ञानेन्द्रियाणि, एतान्याकाशादीनां सात्त्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथगुत्पद्यन्ते,

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174