Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 113
________________ ( ९४ ) द्वितीयोत्पत्तिः तृतीयक्षण द्वित्वत्व निर्विकल्पकं चतुर्थक्षणेऽपेक्षा. बुद्धिनाशो द्वित्वप्रत्यक्षं च पञ्च रक्षणे द्वित्वनाशो द्वित्वविशिष्ट प्रत्यक्षञ्च, एवं त्रित्वादरेप्युत्पादविनाशौ। मानव्यवहारासाधारणकारणं परिमाणं नवद्रव्यवृत्ति, महद्दीर्घाणुह्रस्वभेदेन चतुर्विधम्, तदपि प्रत्येकं परममध्यमभेदेन द्विविधंद्विविधम्, तत्र परममहद्दो आकाशादिद्रव्यचतुष्टयत्तिन परमाणुह्रस्वे परमाणुमनोवत्तिनी, एनचतुष्टयमपि नित्यगतत्वा. नित्यम्, मध्यममहद्दी व्यणुकाद्यवयविवत्तिनी, मध्यमाणुह्रस्वे द्वयणुकत्तिनी, एतच्चतुष्टयमनित्य मेवाश्रयनाशन्नश्यति । सङ्ख्या जन्यं परिमाणजन्यं, प्रचयजन्यत्वंच, तत्र द्वयुणुकपरिमाणं परमाणुद्वित्वजं, व्यणुकपरिमाणं द्वयणुकत्रित्वजं, घटादिपरिमाणं कपाल. परिमाणजं, तूलकादिपरिमाणं प्रचयजन्यमिति । पृथग् व्यवहारा. साधारणकारणं पृथक्त्व नवद्रव्यवृत्ति, एकपृथक्त्वादि परार्ध. पृथक्त्वपर्यन्तम्, संख्यावन्नित्यत्वादिकमस्य ज्ञेयम् । संयुक्तव्यवः हारासाधारणकारणं संयोगः नवद्रव्यवृत्तिः, सचैककर्मजन्योभय. कर्मजन्यसंयोगजसंयोगभेदात् त्रिविधः, तत्राद्यः, पक्षिक्रियया पक्षितरुसंयोगः, द्वितीयो मल्लद्वयक्रियाभ्यां मल्लद्वयसंयोगः तृतीयः कपालतरुसंयोगाद् घटसंयोगः, क्रियाया अभावादवयवाभावाच्च विभुद्वयसंयोगो न भवति, संयोगश्चाव्याप्यवृत्तिः, यत्रकावच्छेदेन संयोगो विद्यते, तदा तत्रैवान्यावच्छेदेन तदभावोऽपि, परमाणुनिष्ठस्यापि संयोगस्य दिगादयोऽवच्छेदकाः कर्मजसंयोगोऽभिघातो नोदनञ्च, आद्यः शब्दहेतुः, द्वितीयः शब्दाहेतुः। संयोगनाशको

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174